पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ अथर्वसंहिताभाष्ये नवमी ॥ आ प्र च्यवेथामप तन्मृजेथां यद् वामभिभा अत्रोचुः । अस्मादेतमघ्न्यौ तद् वशीयो दातुः पितृष्विहभोजनौ मम ॥ ४९ ॥ आ।म। च्यवेथाम् । अप । तत् । मृजेथाम् । यतं । वाम् । अभिऽभाः। अब । ऊचुः। अस्मात् । आ । इतम् । अन्यौ । तत् । वशीयः । दातुः । पितृषु । इहऽभो- जनौ । मम ॥४९॥ हे प्रेतवाहनवृषभौ युवाम् आ अस्मदभिमुखं प्र च्यवेथाम् शकटात् प्रच्युतौ वियुक्तौ भवेतम् । च्युङ् पुङ् गतौ । भौवादिक आत्म- नेपदी । तत् वक्ष्यमाणं निन्दारूपं वाक्यम् [अप मृजेथाम् ] अ- पमार्जयतं शोधयतम् । मृजेर्लोटि व्यत्ययेन शः । “आतो डि- तः” इति इयादेशः । किं तद् अपमार्जनीयं तद् आह । अ- भिभाः अभिभावका दूषकाः पुरुषाः । अभिपूर्वाद् भवतेः “डो- न्यत्रापि दृश्यते” इति डः। अत्र अस्मिन् प्रेतवहनकर्मणि वाम् युवां यद् ऊचुः पुंगवौ किल अ1स्पृश्यम् अनिरीक्ष्यं प्रेतम् ऊढवन्तौ इत्यादिनिन्दारूपं यद् वाक्यम् उदितवन्तस्तच्छोधयतम् इति । अतो हेतोः हे अध्न्यौ अहन्तव्यौ हे वृषभौ युवाम् अस्मात् निन्दानिमित्ताच्छ- कटाद् एतम् आगच्छतम् । तत् आगमनं वसीयः श्रेष्ठं भवति युवयोः। ततः इहं अस्मिन् पितृमेधे पितृषु। विषयसप्तमी । पितृवि- १K मभिजा. We with AC BR V Dr. २ B अस्मादेतमन्यो तशीयो दातुः पितृविह भोजनौ मम. S A t"xcept tlat it hts भ्यो. KV अस्मादेतमध्यौ तद्वशीयो दातुः पितृष्वि- हभोजनौ मम; V (real- तद्द!). C अस्मादेतमन्यौ तद्वशीयो दातुः पितृनौविहभोजनौ मम. D. अस्मादेतमाम्यौ तद्वशीयो दातुः पितृविहभोजनौ मम, changeal to अस्मादेतमध्यौ तशी- यो दातुः पितृविहभोजनी मम. R अस्मादतमध्यौ तद्वशीयो दातुः पितृविहभोजनौ मम. ३C यत्र | for यत् । वाम् ।. PP यत् । वाम् ।. ४ Cr अस्मान् ।. PF अस्मात् ।। ५ CP इतम् । ६ Cr अन्यौ। PP अध्यौ।. Cr वशीयः ।. "वशायः।. P वशीयः। 15 अज्यस्पृश्यम्.