पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २४७ "पामा." इत्यादिना वेगितायां गतो धाव् आदेशः । व्यत्ययेन आत्मनेप- दम्। तादृशस्य चन्द्रमसः संबन्धिनो हे हिरण्यनेमयः सुवर्णसदृशप- र्यन्ता हितरमणीयप्रान्ता वा हे विद्युतः विद्योतमाना रश्मयः वः युष्माकं पदं पादस्थानीयम अग्रं न विन्दन्ति मदीयानि इन्द्रियाणि कूपेन आवृतत्वाद् न लभन्ते । न पश्यन्तीत्यर्थः । अतः इदम् अनुचितम् । तस्मात् कू- पाद् माम् उत्तारयतेत्यर्थः ॥ अपि च हे रोदसी द्यावापृथिव्यौ मे मदी- यम् अस्य इदं स्तोत्रं वितम् जानीतम् । विद ज्ञाने । लोटि अ- दादित्वात् शपो लुक् । पादादित्वात् “तिङतिङः” इति निपाताभा- वः । यद्वा [मे मदीयं] कूपपतनरूपं यद् इदं दुःखं तद् अव- गच्छतम् । मदीयं स्तोत्रं श्रुवा मदीयं दुःखं ज्ञात्वा अस्मात् कूपाद् माम उत्तारयतम् इत्यर्थः । अस्येति । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानावाच्चतुर्थे षष्ठी । 'ऊडिदम्” इति विभक्तेरु- दात्तत्वम् ॥ चतुर्थेनुवाके नवमं सूक्तम् ॥ अनुवाकश्च समाप्तः ॥ श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहर- महाराजकारिते सायणाचार्यविरचिते अथर्ववेदार्थप्रकाशे अष्टादशकाण्डं समाप्तम् ॥ व: । 66