पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । २१९ रौद1नदध्योदनतिलमिश्रधानादेः । यन्मन्थादिकम् हे प्रेत ते तुभ्यं निपृ. णामि ददामि । निपरणं नाम पित्र्योपवीतिना पराचीनपाणिना पित्रर्थ चोदितद्रव्यस्य प्रक्षेपः । ते मन्यादयः ते तव स्वधावन्तः बह्नन्ना [मधुम- न्तः] मधुयुक्ता [घृतश्श्रुतः] घृतसहिताश्च [सन्तु] भवन्तु ॥ तृतीया ॥ यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्तै सन्तूद्भ्वी प्रभ्वीस्तास्तै यमो राजानु मन्यताम् ॥ ४३ ॥ याः । ते । धानाः । अनुऽकिरामि । तिलमिश्राः । स्वधाऽवतीः । ताः। ते । सन्तु । उत्ऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः। राजा । अनु । मन्यताम् ॥ ४३ ॥ “यास्ते धानाः” इति तृतीया ऋग् अस्मिन्नेवानुवाके तृतीयसूक्ते व्या- ख्याता [२६] ॥ चतुर्थी॥ इदं पूर्वमपरं नियानं येना ते पूर्व पितरः परेताः। पुरोगवा ये अभिशाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥ इदम् । पूर्वम् । अपरम् । निऽयानम् । येन । ते । पूर्वे । पितरः । पराऽइताः । पुरःऽगवाः । ये । अभिऽशाचः । अस्य । ते । त्वा । वहन्ति । सुऽकृताम् । ऊं इति । लोकम् ॥ ४४ ॥ इदं नियानम् । नीचीनं पराङ्मुखं यान्ति अनेन प्रेता इति नियानं शकटम् । इदं पुरोवर्ति प्रेतवहनाय संनद्धं नियानं शकटं पूर्वम् पुरातनम् अपरम् अद्यतनं2 च । पूर्वेषां प्रेतानां वहनाय एतदेव शकटम् अपरे- १ B °गवा. C गवा. We with R.VD. २ KR C अभिशाचौ. D.: अभिशाचौ chung. el to अभिषाचौ. vwith sajana. PF अभिऽशाचः।. Cr अभिऽशाचः1. अभिशाचः ॥1 Pears to the the ancient reading of the Athaarrn. 15. क्षीरोदन. पूर्वश्चातनं tor अद्यतनं.