पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२० अथर्वसंहिताभाष्ये षाम् इदानींतनानामपि इदमेव शकटम् इति पूर्वम् अपरं चेत्युच्यते । पूर्त्ववमेव उपपादयति । येन शकटेन ते तव पूर्वे पुरातनाः पितरः प- रेताः इतः पराङ्मुखं गताः ॥ अस्य अपरस्य इदानीं संनह्यमानस्य श- कटस्य अभिषांचः अभितः पार्श्वद्वये सचमानाः संगच्छमानाः पुरोगवाः शकटस्य पुरस्ताद्भागे धुरि युज्यमानाः अनड्वाहो ये सन्ति । “गो- रतद्धितलुकि" इति टच समासान्तः । ते पुरोगवास्त्वा त्वां सु. कृताम् सुकृतकर्मणाम् । उशब्दः अवधारणे । लोकमेव वहन्तुं प्राप- यन्तु । वहिर्ट्ढिकर्मकः ॥ पञ्चमी॥ सरस्वती देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। __ सरस्वती सुकृतो हवन्ते सरखती दाशुषे वार्यं दात् ॥ ४५ ॥ सरखतीम् । देवऽयतः । हवन्ते । सरस्वतीम् । अध्वरे । तायमाने। सरस्वतीम् । सुऽकृतः । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात् ॥ ४५ ॥ "सरस्वती देवयन्तः” [१६.१.४१] इति पञ्चम्याद्यास्तिस्र ऋचः अ- स्मिन्नेव काण्डे प्रथमेनुवाके पञ्चमे सूक्ते व्याख्याताः ॥ षष्ठी ॥ सरस्वती पितरो हवन्ने दक्षिणा यज्ञमभिनक्षमाणाः । आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥ ४६ ॥ सरस्वतीम् । पितरः । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणाः । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवाः । इर्षः। आ।धे- हि । अस्मे इति ॥ ४६॥ सप्तमी॥ सरस्वति या सरथं ययायोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती । सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥ ४७ ॥ 18 वोनड्डाही.