पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ अथर्वसंहिताभाष्ये ___ अमर्त्यम् अमरणधर्माणं घृतप्रियम् प्रियं प्रीतिकरं घृतम् आज्यं य- स्य । “वा प्रियस्य” इति प्रियशब्दस्य पूर्वनिपातविकल्पनाद अत्र परनिपातः । आज्येन अग्निः प्रवृद्धज्वालो भवतीति घृतप्रिय- त्वम् । हव्यवाहम् हव्यस्य हविषो वोढारम् अग्निं समिन्धते समिन्धन- साधनैः काष्ठैः सम्यग् दीपयन्ति कर्तारः । इन्धेर्लटि बहुवचने रूपम् । यद्वा तस्मादेव धातोलेंटि 1अडागमः । स- मिद्भिः समिन्धीत । यतः सोग्निः निहितान् भूमौ स्थापितान् निधीन् निक्षेपान् । लुप्तोपमम् एतत् । यथा 2भूम्यां निगूढा निधयः प्रदर्शकेन विना न प्रकाशन्ते एवं पितरोपि पुरःस्फूर्तिका न भवन्ति । 3निधीनिव स्थितान् परावतः । परावच्छब्दो दूरवाची। पराशब्दाद् “उपस- र्गाच्छन्दसि.” इति वतिप्रत्ययः । अतिदूरान् देशान् गतान् प्रा- प्तान् पितृन् वेद जानाति । अस्य पितरः अत्र देशे वर्तन्त इति स- म्यग् जानाति । वेतेः “विदो लटो वा” इति तिपो णल् आदेशः । अतः समिन्धत इति संबन्धः ॥ द्वितीया॥ यं ते मन्थं यमोदनं यन्मांसं निघृणामि ते। ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्श्रुतः ॥ ४२ ॥ यम् । ते। मन्थम् । यम् । ओदनम् । यत् । मांसम् । निऽपृणामि । ते। ते । ते । सन्तु । स्वधाऽवन्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ ४२ ॥ प्रेतस्य हि प्रीणनाय सक्तुमन्यादयः प्रदीयन्ते । “ये अग्नयः [३. २१.१] इति दशर्चेन पलाशपर्णैः सक्तुमन्यं विकिरेत्” इति हि सूत्रम् [कौ०११.३] । “अपूपवान् मांसवान्" [२०] इति “अन्नवान्" [२१] इति च मन्त्रयोर्मासान्नदानं विहितम् । उपलक्षणम् एतत् क्षी- १ KCR मन्थ. D: यंत मंथं clingtol to यं ते मंथ. C मधम् ।. Elsexhere the worl is मन्थ:. As for the anssage in the kuntia (३. ३.) it is authority at all. We with VDr. २ पृणामि ते. D पृणामि ते changeal to प्रणामि ते. We with BCE VDr. ३ Cr °युतः।. 1S आडा. = I भ्यां for भूम्यां. : s las अत: yefore निधीनिय