पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१७ पनम् । [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । उप सचन्ते स्वीकर्तुं समीपे समवयन्ति ते पितरो नः अस्मभ्यं सर्ववी- रम् । वीराः कर्मणि कुशलाः पुत्रपौत्रादयः । बहुपुत्रादिसहितं रयिम् धनं नि यच्छान् नियच्छन्तु प्रयच्छन्तु । नियमनं नाम स्थैर्येण अवस्था- पनम् । यमेर्लेटि "इतश्च लोपः परस्मैपदेषु” इति इकारलोपः ॥ [इति ] चतुर्थेनुवाके चतुर्थं सूक्तम् ॥ समिन्धते” इति आद्यया ऋचा पिण्डपितृयज्ञे समिधम् आद- ध्यात् । सूत्रितं [हि] । “उपसमादधाति ये निखाताः [१४.२.३४] समिन्धते [१६.४.४१] ये तानृषुः [१६.३.४७] ये सत्यासः” [१६. ३.४.] इति [कौ०११...] "यास्ते धानाः" [४३] इत्यस्या अस्थिषु तिलमिश्रधानाविकिरणे वि- नियोग उक्तः ॥ 'इदं पूर्वम्” [४४] इत्यनया दहनार्थं प्रेतम् उत्थाप्य शकटे निदध्यात् ॥ "सरस्वतीं देवयन्तः" [४५] इति तिसृणां प्रेतशरीरे अग्निदानानन्तरं सारस्वतहोमे विनियोग उक्तः ॥ 'पृथिवीं वा” [४] इत्यनया सवयज्ञेषु मृगोमयादिना चरुस्थालीम् आलिम्पेत् । पृथिवीं त्वा पृथिव्याम् इति कुम्भीम् आलिम्पति" इति [को०६.२.] सूत्रं प्रागेव प्रदर्शितम् ॥ "आ प्र च्यवेथाम्" [४९] इति ऋचा प्रेतवाहनवृषभौ अभिमन्त्य कर्ता गृह्णीयात् ॥ पितृमेध एव चतुर्थेऽहनि “एयमगन" [५०] इति ऋचा दक्षिणारूपां गाम अभिमन्त्य प्रतिगृह्णीयात् ॥ < 6 तत्र प्रथमा। समिन्धते अमर्त्यं हव्यवाहं धृतप्रियम् । स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥ ४१ ॥ सम् । इन्धते । अमर्त्यम् । हव्यवाहम् । घृतऽप्रियम् । सः । वेद । निऽहितान् । निऽधीन् । पितॄन् । पराऽवतः । गतान् ॥४१॥ २८