पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ अथर्वसंहिताभाष्ये पुमपत्यं पौत्रम् पुत्रस्य पुमपत्यम् । उभयत्र एकवचनम् अत- न्त्रम् । लिङ्गं तु विवक्षितम् । पुत्रान् पौत्रांश्च अभितर्पयन्ति अ- भितः सर्वतस्तर्पयन्त्यः प्रीणयन्त्यो भवन्ति1 यतः अतः पितृभ्यः स्वीयेभ्यः पिण्डोपजीविभ्यः अमृतम् अमरणसाधनं स्वधाम् आत्मप्रीणनकरम् अ- न्नं दुहानाः प्रयच्छन्त्यो देवीः देव्यो द्योतमाना आपः आचमनीया उ- भयान् पुत्रान् पौत्रांश्च उभयविधान् तर्पयन्तु वर्धयन्तु । अथ वा उभ- यशब्देन स्वीया मातृपितामह्यादयः पितृवंश्याश्च विवक्ष्यन्ते । तान् उभय- विधांस्तर्पयन्तु । पिण्डदानानन्तरं क्रियमाणेन अनेन आचमनकर्मणा तृ- प्तान् कुर्वन्तु । र अस्मिन् पक्षे पितृभ्य इत्यत्र “पिता मात्रा" इति एकशेषो द्रष्टव्यः ॥ दशमी ॥ आपो अग्निं प्र हिणुत पितृरुपेमं यज्ञं पितरो मे जुषन्ताम् । आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥ ४० ॥ (३३) आपः । अग्निम् । म। हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितरः। मे । जुषन्ताम् । आसीनाम् । ऊर्जम् । उप। ये। सचन्ते । ते । नः । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥ ४० ॥ (२३) हे आपः अवसेचनसाधनभूता यूयम् अग्निम् युष्माभिरवसिच्यमानं द- क्षिणाग्निं पितॄन् पितृपितामहादीन् उप । उपशब्दः समीपवचनः । पितृ- णां समीपं प्र हिणुत प्रेषयत । बर्हिर्दत्तान् पिण्डान् दातुम् इति शेषः ॥ मे मदीयम् इमम् इदानीम् अनुष्ठीयमानं यज्ञम् पिण्डपितृयज्ञाख्यं पि- तरः मदीया जुषन्ताम् सेवन्ताम् । पिण्डान् आस्वादयन्नु । ये पितरः आसीनाम् उपविष्टाम् । आस उपवेशने । "ईदासः" इति ई- कारः । बर्हिषि आसादिताम् ऊर्जम् बलकरपिण्डलक्षणम् अन्नम् ABCKKRPPV De stagra. We with Cr. २ CP ऊर्जे । उभये । सर्चते । for ऊर्जम् । उप। ये । सचन्ते । कार: 18 भवति.