पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम। २१५ सर्वे यूयं तस्मै प्रेताय गृहान कुरुतेति । तस्यास्थिनिरीक्षणमेव परलोके स्थानकरणम् इत्यर्थः ॥ अष्टमी॥ इहैवैधि धनसनिरिहचित्त इहक्रतुः । इहैधि वीर्यवितरो वयोधा अपराहतः ॥ ३ ॥ इह । एव । एधि । धनऽसनिः । इहऽचितः । इहऽक्रतुः । इह । एधि । वीर्यवत्ऽतरः । वयःऽधाः । अपराडहतः ॥ ३ ॥ हे दीपपांसुष्वाहित 1उल्मुक त्वम् इहैव पांसुलक्षणे प्रदेश एव एधि भव । धनसनिः अस्माकं धनस्य दाता भव । "छन्दसि वनस- नरक्षिमद्याम्" इति सनोतेः इन प्रत्ययः । इह अस्मिन् प्रदेशे चितः प्रज्ञातो भव । चिती संज्ञाने । कर्मणि निष्ठा । 'श्वी- दितो निष्ठायाम्" इति इडभावः । इह क्रतुः कर्म अस्मदीयक- र्मसंपादको भव । तथा 2इहैवं प्रदेशे वीर्यवत्तरः अत्यन्तं बलवान् व- योधाः । वय इति अन्ननाम । तस्य धाता विधाता अपराहतः शत्रुभिर- पराजितश्च सन् एधि भव । अस्तेर्लोटि हौ रूपम् ॥ नवमी॥ पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तिर्पयन्तु ॥ ३९ ॥ पुत्रम् । पौत्रम् । अभिऽतर्पयन्तीः । आपः । मधुऽमतीः । इमाः । स्वधाम् । पितृऽभ्यः । अमृतम् । दुहानाः । आपः । देवीः । उभयान् । त- र्पयन्तु ॥ ३९ ॥ मधुमती: मधुररसोपेता इमा आचमनार्हा आपः पुत्रम् अव्यवहितं १K वैधि धनसनि. D• वैधि धनसनि° chungeel to वैधि धनसनि. We with BC R V Dc. Kधीर्यवत्तरो. De वीर्यवत्तरो changeil to वीर्यवत्तरो. We with BC R VDe. ३C" धनऽसनिः। xŘ ortafhº. De altafito changed otsafaº. We with BCR V Dc. 18 उन्मुक. 2 Sayana's text rearls : इहैवधि वीर्यवत्तरो. २