पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१४ अथर्वसंहिताभाष्ये क्षयरहितम् उदकपूर्णं सलिलस्य अन्तरिक्षस्य पृष्ठे उपरिभागे व्यच्यमा- नम् । व्यचतिर्व्याप्तिकर्मा तू ।व्याप्नुवन्तम् । आकाशे धार्यमा- णम् इति यावत् । ऊर्जम् बलकरम् अन्नम् । अन्नसाधनोदकम् इति यावत् । दुहानम्1 क्षारयन्तम् अनपस्फुरन्तम् बहुच्छिद्रसाहित्येपि अ- विदीर्यमाणं सम्यक् शोभमानं वा सहस्रच्छिद्रं कुम्भं पितरः प्रेतभू- ताः। पूजायां बहुवचनम् ।स्वधाभिः । ( हेतौ तृ- तीया । स्वप्रीणनसाधनैरन्नैर्हेतुभिः उपासते सेवन्ते उपगच्छन्ति ॥ सप्तमी॥ इदं कसाम्बु चयनेन चितं तत संजाता अव पश्यतेत । मर्त्योयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥ ३७ ॥ इदम् । कसाम्बु । चयनेन । चितम् । तत् । सऽजाताः । अव । पश्यत । आ। इत। मर्त्यः । अयम् । अमृतऽत्वम् । एति । तस्मै । गृहान् । कृणुत । यावतऽस- बन्धु ॥ ३७॥ हे सजाताः सहजन्मानः समानकुले जाता गोत्रिणः यूयं चयनेन 2सं- चयनकर्मणा चितम् संचितम् एकत्र समूहीकृतं तद् इदं कसाम्बु कसाः कीकसाः अस्थीनि । आदिवर्णलोपरछान्दसः ।3कसाश्च अ- म्बूनि च कसाम्बु ।द्वन्द्वैकवद्भावः । पूर्वमन्त्रेण अस्थ्नाम् उदकेन आप्लावनम् उक्तम् । उदकाप्लावितान्यास्थीनि अव पश्यत अ- वधानेन ईक्षध्वम् । एत आगच्छत ॥ अयं मर्त्यः मरणधर्मा प्रेतः अमृतत्वम् एति अमरणधर्मं प्राप्नोति । तस्मै तदर्थं गृहान् स्थानानि कृणुत कुरुत । यावत्सबन्धु यावन्तः सबन्धवः समानगोत्रा भवथ ते Bi foret. Pfarrei. We with ACRVDEC P Sayanı's text in S alone renes raatt. All our Saüliti-SS. correctly real peace, and the pacli-MSS. KC मत्यों ३०. De मोयमclhungel to मोश्यम' and rechang- ed to AitTh°. We with BRV Dc. 15 दुहानां. 28 प्रसंचयन for संचयन. 38 कसांश्च. पश्यत । आ । इत 1.