पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 [अ°४. सू०४.] ५४४ अष्टादशं काण्डम्। २१३ वैश्वानरे विश्वनरहितो विश्वानरः । “नरे संज्ञायाम्” इति पूर्वपदस्य दीर्घः । विश्वानर एव वैश्वानरः । तस्मिन् अग्नौ इदं पयोरूपं स्थालीपाकरूपं वा हविः जुहोमि प्रक्षिपामि । हविर्विशिनष्टि । साहस्रम् सहस्रविधोदकमवाहयुक्तम् । “तपःसहस्राभ्यां विनीनी"। 'अण् च" इति मत्वर्थीयः अण् प्रत्ययः । शतधारम् शत- प्रवाहोपेतम् । अवयुत्य स्तुतिः । उत्सम् प्रस्रवणम् । यथा एवंविध उ- सः स्वोपजीविनः प्राणिनः प्रीणयति एवम् इदं हविः नानाविधं सत् पितॄन् पुष्णातीति उत्सात्मना रूपितम् ॥ पिन्वमानः । पिविरिद- न्तः प्रीणनार्थो भौवादिकः । इदित्वान्नुम् । हविषा प्रीतः स वैश्वानरोग्निः पितरम् पितृत्वं प्राप्तं स्व1जनकं प्रेतं पितामहान पितुः पि- तृन् बिभर्ति प्रीणयति । तथा प्रपितामहान् प्रकृष्टान् पितामहान् स्वपि- तुः पितामहान् । बहुवचनेन पितामहादीन् सर्वान् स्ववंश्यान् । विभ- र्ति पुष्णातीति । "पितृव्यमातुलमातामहपितामहाः” इति पिता- महशब्दो निपातितः ॥ षष्ठी ॥ सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे । ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥ ३६ ॥ सहस्रऽधारम् । शतऽधारम् । उत्सम् । अक्षितम् । विऽअच्यमानम् । स- लिलस्य । पृष्ठे। ऊर्जम् । दुहानम् । अनपऽस्फुरन्तम् । उप । आसते । पितरः । स्वधा- भिः॥३६॥ सहस्रधारम् सहस्रसंख्याकच्छिद्रपतितोदकप्रवाहयुक्तं शतधारम् । अव-2 युज्यैव स्तुतिः । उत्सम् । उत्सवद् उत्सः । उत्सोपमं कलशम् अक्षितम् २ B मान. Dc व्यच्यमान (sic) changed to व्य॒च्यमान. PF विऽअच्यमानम् ।. Cr विअध्य-मानम् ।. We with A C KEV CP. K °मुपासते. De स्फुरतमुपासते changeel to °स्फुरैतमुपासते. We with BC EV. 18 स्वे. 25 अवयुत्यव for अवयुत्यैव.