पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ अथर्वसंहिताभाष्ये चतुर्थी॥ एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥ ३४ ॥ एनीः । धानाः । हरिणीः । श्येनीः । अस्य । कृष्णाः । धानाः। रोहिणीः । धेनवः । ते। तिलऽवासाः । ऊर्जम् । अस्मै । दुहानाः । विश्वाहा । सन्तु । अनपऽस्फु- रन्तीः ॥ ३४ ॥ पूर्वमन्त्रोक्तोर्थः अनया विव्रियते । एनीश्येनीशब्दौ व्याख्यातौ । हरि- णीः हरिण्यः हरितवर्णाः । कृष्णाः अतिभर्जनात् कृष्णवर्णाः । रोहिणीः रोहितवर्णा अरुणवर्णाः । ४ सर्वत्र पूर्ववद् ङीम्नकारदीर्घाः । धे- नुरूपा धानाः अस्य ते तव भवन्ति । तास्तिलवत्सा धेनवो विश्वाहा सर्वेषु अहःसु । g"कालाध्वनोः” इति द्वितीया । अ- नपस्फुरन्तीः अनपस्फुरन्त्यः । अपस्फुरणं नाम नाशः । अविनश्वर्यः 1अक्षीणाः सत्यः अस्मै अस्थिरूपाय ते तव ऊर्जम् बलकरम् अन्नं दु- हानाः प्रयच्छन्त्यः सन्तु भवन्तु ॥ 37- पञ्चमी॥ वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् । स बिभर्ति पितरै पितामहान् प्रपितामहान् बिभर्ति पिन्व॑मानः॥ ३५॥ वैश्वानरे । हविः । इदम् । जुहोमि । साहस्रम् । शतऽधारम् । उत्सम् । सः । बिभर्ति । पितरम् । पितामहान् । प्रऽपितामहान् । बिभर्ति । पिन्व- मानः ॥ ३५ ॥ PŘ Taftº. De grafto changed to gato. We with CBRV. २ B तिलवत्सा. De fazatar ehangul to faceret. Wc with CXRV Cr. सन्त्वनंपस्फुरन्ती. De संत्वनपस्फुरती changeel to संत्वनपस्फुरंतीः. P अनपऽस्फरती। अनपऽस्फुरतीः 1. CP अनपऽस्फुरन्ती. We with CR BV, except that C R omit the visarga after °न्ती, which vixaron ve take from BV De and Sayana. 18' क्षीणाः for अक्षीणाः, ३ K