पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२११

[अ०४. सू०४.] ५४४ अष्ठादशं काण्डम्। मस्य राज्ये अक्षिताम् क्षयरहिताम् उप जीवांति उपजीवेद् अयं प्रे- तः। जीवतेलेंटि आडागमः । वैशब्दः प्रसिद्धिद्योतनार्थः । यद्वा। तिङां तिङो भवन्तीति हेस्तिबादेशः । उपजीव हे प्रेत त्वम् इति । अक्षिताम् । क्षि क्षये । “निष्ठायाम् अण्यद- र्थे” इति पर्युदासाद् दीर्घाभावः । ण्यदर्थो भावकर्मणी । अत एव दीर्घाभावाद् नत्वाभावः ॥ तृतीया ॥ एतास्ते असौ धेनवः कामदुघा भवन्तु । एनीः श्येनीः सरूपा विरूपास्तिलव॑त्सा उप तिष्ठन्तु त्वात्र ॥ ३३ ॥ एताः । ते । असौ । धेनवः । कामऽदुधाः । भवन्तु । एनीः । श्येनीः । सऽरूपाः । विडरूपाः । तिलऽवत्साः । उप । तिष्ठन्तु । त्वा । अत्र ॥ ३३॥ असौ इति प्रेतस्य संबोधनम् । हे असौ अमुकनामधेय प्रेत ते तव एता धानाः कामदुधाः कामं काम्यमानं फलं दुहन्तीति कामदुधाः । हः कव्यश्च" इति कप् प्रत्ययो घश्च अन्तादेशः । इष्टफलदा1 धेनवो भवन्ति । ता एव विशिनष्टि । एनीः । एतः संध्यावर्णः । श्येतः शु- भ्रवर्णः। उभयत्र “वर्णाद् अनुदात्तात्" इति ङीम्नकारौ । “वा छन्दसि” इति पूर्वसवर्णदीर्घः ।एन्यः संध्यावर्णाः शुभ्रारुणव- र्णाः श्येन्यो धवलवर्णाः सरूपाः समानरूपाः विरूपाः विविधरूपाः ति- लवत्साः तिलात्मकवत्ससहिता धेनुरूपा धानाः अत्र अस्मिन् यमराज्ये हे प्रेत त्वा त्वाम् उप तिष्ठन्तु अभिमतफलदोहनार्थं समीपे सेवन्ताम् परिचरन्तु ॥ So BCKRV De PẾ. Ce alone has stafa I. २ BCV विरूपास्तिलवत्सा. Dr: विरूपास्तिलवत्सा changeel to विरूपास्तिलवत्सा. Ce तिलऽवत्साः ।. We with R K भ्रवर्णः । and Co. 18 °फलदो.