पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० अथर्वसंहिताभाष्ये "पुत्रं पौत्रम्" [३९] इत्यूचा पिण्डपितृयज्ञे पिण्डदानानन्तरम् आ. चामेत् ॥ "आपो अग्निम्" [४०] इत्युत्तरया अद्भिरग्निम् अवसिञ्चेत् ॥ सूत्रितं हि । “आपो अग्निम् इत्यद्भिरग्निम् अवसिच्य पुत्रं पौत्रम् अभितर्पयन्तीरित्याचामति" इति [को०११.९.] ॥ तत्र प्रथमा। एतत ते देवः सविता वासो ददाति भर्तवे। तत् त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥ ३१ ॥ एतत् । ते । देवः । सविता । वासः । ददाति । भर्तवे । तत् । त्वम् । यमस्य । राज्ये । वसानः । तार्प्यम् । चर ॥ ३१ ॥ हे प्रेत ते तव सविता सर्वस्य प्रेरको देवः एतत् इदं वासः वस्त्रं भतवे भरणाय आच्छादनाय ददाति प्रयच्छति । वं च तत् ताम तर्पणार्हं प्रीतिकरम् । यद्वा तृपा नाम तृणविशेषः । तन्निर्मितं घृताक्तं वस्त्रं तार्प्यम् इति अन्ये वदन्ति । तद् वस्त्रं वसानः आच्छाद- यन् । वस आच्छादने । आदादिकः अनुदात्तेत् । यमस्य प्रेताधिराजस्य राज्ये चर परिभ्राम्य ॥ द्वितीया ॥ धाना धेनुरभवद् वत्सो अस्यास्तिलो भवत् । नां वै यमस्य राज्ये अक्षितामुपं जीवति ॥ ३२ ॥ धानाः । धेनुः । अभवत् । वासः । अस्याः । तिलः । अभवत् । ताम् । वै। यमस्य । राज्य । अक्षिताम् । उप । जीवति ॥ ३२ ॥ धाना भृष्टयवः धेनुः प्रीणयित्री गौरभवत् । अस्या धेनुरूपाया धा- नायास्तिलः वत्सोऽभवत् । तां वत्सरूपतिलसहितां धेनुरूपां धानां य- १ A BKV ददातु. Do ददाति changed 10 ददातु. We with C CP. २ °नस्तार्थ चर, the of being for cát, and the accent on of being wrongly omitted. Both. V नस्तार्य. D वनिस्ता] चर changeel to वसानस्तार्य चर. We with A KE CP. ३ Dc अस्यास्तिलो changeel to अस्यास्तिलो. BV C अस्यास्तिलोभ. We with .R.