पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०९ “ [अ°४. सू०४.] ५४४ अष्टादशं काण्डम् । मधुमतीम् मधुररसक्षीरयुक्ताम इडाम् । धेनुनामैतत् । एतासंज्ञकां धेनुम् । यद्वा इडा भूमिः । भूमिरूपां धेनुं दुहन्ति । दुहिर्द्विकर्मकः ।कि- मर्थम् । स्वस्तये । स्वस्तीत्यविनाशिनाम । तस्य सर्वदा परलोकनिवा- साय । चतुश्छिद्रकलशोदकेन आप्लावनं नाम चतुःस्तनधेनुदोहनमेवेत्यर्थः । मदन्तीम् मदयन्तीं तोषयन्तीम् अदितिम् अखण्डनीयाम् ऊर्जम् बलक- रम् अन्नं जनेषु पितृत्वं प्राप्तेषु मध्ये हे अग्ने मा हिंसीः पितॄणां म- ध्ये एतस्य प्रेतस्य भोगाय अन्नं मा च्छेत्सीः । परमे व्योमन्निति पदद्वयं कलशं दुहन्तीत्यनेन संबन्धनीयम् । परमे उत्कृष्टे व्योमन् ।स - प्तम्या लुक् । 'न डिसंबुद्धयोः” इति नलोपाभावः । व्योम- नि आकाशे शतच्छिद्रं कलशं दुहन्तीति ॥ [इति ] चतुर्थेनुवाके तृतीयं सूक्तम् ॥ एतत् ते देवः” इति सूक्तस्य आद्यया ऋचा वासोऽभिमन्त्य प्रेतं प्रच्छादयेत् ॥ "धाना धेनुरभवत्" [३२] "एतास्ते असौ धेनवः” [३३] "ए. नीर्धाना हरिणीः" [३४] इति तिसृभिर्ऋग्भिः अस्थाम् उपरि तिल- मिश्रा धाना आदध्यात् ॥ पितृमेधे द्वितीयेऽहनि “वैश्वानरे हविः” [३५] इत्यनया दहनस्थान- संनिधौ अन्यवत्साया गोः पयः पयसि शृतं स्थालीपाकं वा जुहुयात् ॥ 'सहस्रधारम" [३६] इत्यनया अभिमन्त्रितेन सहस्रच्छिद्रपात्रपतितो-1 दकेन अस्थीन्याप्लावयेत् ॥ "इदं कसाम्बु" [३७] इत्यनया गर्त् स्थापितानि अस्थीनि गोत्रिणः सर्वे वा ईक्षेरन् । कर्ता मन्त्रं ब्रूयात् ॥ 'इहैवैधि" इत्यनया पिण्डपितृयज्ञे दीप्तयोः काष्ठयोरेकं 2ह्रत्वा पासुषु प्रक्षिपेत् । सूत्रितं हि । “द्वे काष्ठे गृहीत्वा उशन्तः [१७.१.५६] इ. 'त्यादी3पयति । आदीप्तयोरेकं प्रतिनिदधाति । इहैवैधि धनसनिः [१४. "४.३.] इत्येकं 4ह्रत्वा पांसुष्वाधाय" इति [को०११...] ॥ 19 परितो for पतितो. 28 हत्वा. US' पयति अदीप्तयो. 43 हुत्वा.