पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० अथर्वसंहिताभाष्ये वायुम् । लुप्तमत्वर्थीयः । वायुमन्तम् । सच्छिद्रे वस्तुनि वायुर्वाति । यद्वा वायुम् वातारं चरन्तं वायुवदेव कुम्भोपि हस्ताद्वस्त- प्रापणेन सर्वदा चरति तम् अर्कम् अर्चनीयं स्वर्विदम् स्वः स्वर्गस्य ल. म्भकम् एतं कुम्भं नृचक्षसः नृणां द्रष्टारो देवास्ते त्वदर्थम् । यु- प्मच्छब्दस्य “तेमयावेकवचनस्य” इति ते इत्यादेशो व्यत्ययेन उदा- त्तः। हे प्रेत त्वदर्थं रयिम् धनम् अभि चक्षते पश्यन्ति जान- न्ति । एतं कुम्भं तव धनम् इत्येव जानन्ति । ये गोत्रिणः संस्कर्तारः पृणन्ति अस्थिरूपं त्वां कुम्भोदकेन प्रीणयन्ति प्र यच्छन्ति च कुम्भोदकं ते सप्तमातरम् सप्तसंख्याका मातृभूता अग्निष्टोमादिसंस्था यस्या1स्ताम् यद्वा1 सप्तसंख्याका मातारः कर्मणां निर्मातारः कर्तारो होत्रादयः सन्ति [य- स्याः] तादृशीम् । अथ वा मातारः परिच्छेत्तारो यस्याम् एकधा दत्तां2 सप्तधा मान्ति परिच्छिन्दन्ति ताम् । "ऋतश्छन्दसि" इति कपः प्रतिषेधः.। तथाविधां दक्षिणां सर्वदा दुहते दुहते । उदकेन आ- प्लावनं नाम दक्षिणादोहनम् इत्यर्थः । * दुहेर्लटि झस्य “बहुलं छ- न्दसि” इति रुडागमः ॥ कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये । ऊर्ज मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥ ३० ॥ ( २२ ) कोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽम- तीम् । स्वस्तये। ऊर्जम् । मदनीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसीः । परमे । विऽओमन् ॥ ३० ॥ (२२) नवमी ॥ चतुर्बिलम् । शतसंख्याकच्छिद्रस्य कुम्भस्य चतुर्णा छिद्राणाम् अवयुत्य स्तुतिः । चतुश्छिद्रं चतुःस्तनं कोशम् कोशवत् कोशः । कोशो यथा धनकनकादिसंपूर्ण3 स्तद्वत् पयःपूर्णं कलशमं कुम्भं कुम्भोपमम् ऊधः १C इडाम् ।। 13' यस्याः तयाद्वा for यस्यास्ताम् यद्वा.' दत्तः. S' °संपूर्ण. प्रतिषेधः ।