पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°४. सू०४.] ५४४ अष्टादशं काण्डम्। सोमरसः स्कन्दति । दशापवित्राद् द्रोणकलशं प्रति धारापातसमये अन्त- रिक्षे सोम1कणो विप्रकीर्णो भवतीति यावत् । एतदेव उच्यते इमं च योनिम् इति । इमं योनिम् सर्वस्य चराचरात्मकस्य जगतः कारणं पृथिवीम्2 अनुलक्ष्य तथा पूर्वः पूर्वम् उत्पन्नो यो धुलोकस्तम् अनु । प- रस्परसमुच्चयार्थों चकारौ । योनिशब्दः पुंलिङ्गोपि विद्यते । स- मानम् एकविधं योनिम् द्यावापृथिवीलक्षणं स्थानम् अनुलक्ष्य संचर- नतम समन्ताद् विप्रकीर्ण द्रप्सम् सोमरसकणं सप्त सप्तसंख्याका होत्राः । वषट्कर्तृणां संज्ञा होत्रा इति । सप्त होतृमैत्रावरुणब्राह्मणाच्छंसिपोतृनेष्ट्रा- ग्नीप्राच्छावाकसंज्ञकान् वषट्कर्तृन् अनुलक्षीकृत्य जुहोमि अग्नौ प्रक्षिपामि । उत्तरत्र होत्रादिवषट्कारे सोमरसः अध्वर्युभिर्हूयते । तदर्थं स्कन्नं सोमरसं द्रप्सदेवतार्थं करोमीत्यर्थः । वाजसनेयब्राह्मणे खलु एष द्रप्सः आदित्या- त्मना स्तुतः । तथा च आम्नायते । “असो वा आदित्यो द्रप्सः । स दिवं च पृथिवीं च स्कन्दति । इमं च योनिमनु यश्च पूर्व इति । इमं "[च] लोकम् अमुं चेत्येतत् । समानं योनिमनु संचरन्तम् इति । समानं “ह्येष एतं योनिमनु संचरति3 । द्रप्सं जुहोम्यनु सप्त होत्रा इति । असौ वा आदित्यो द्रप्सः । दिशः सप्त होत्राः । अमुं तदादित्यं4 दिक्षु प्र. 'तिष्ठापयति" इति [शबा७.४.१.२०] ॥ शतधार वायुमर्क स्वर्विदै नृचक्षसस्ते अभि चक्षते रयिम् । ये पृणन्ति प्र च यच्छन्ति सर्वदा ते दुहते दक्षिणां सप्तमातरम् ॥२९॥ शतऽधारम् । वायुम् । अर्कम् । स्वःऽविदम् । नृऽचक्षसः । ते । अभि । चक्षते । रयिम्। ये। पृणन्ति । प्र। च । यच्छन्ति । सर्वदा । ते । दुहते । दक्षिणाम् । स- प्तमातरम् ॥ २९ ॥ अष्टमी ॥ शतधारम् शतसंख्याकच्छिद्रपतितोदकप्रवाहयुक्तम् अत एव १C यछंति । 18 °करणो. 2 3 om. °म् अनुलक्ष्य तथा. 39 संचरंति. 13 om. °दित्यं. " 66