पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ अथर्वसंहिताभाष्ये स्वधावतीः अन्नवतीर्या धानाः भृष्टयवान् अनुकिरामि अनुक्रमेण विकि- रामि अनूचीनं वा विक्षिपामि ता धानास्ते परलोकं प्राप्तवतस्तव प्रीण- नाय अभ्वीः । महन्नामैतत् । 1महत्यो भवन्तु । प्रवीः प्रभूताश्च सन्तु भ- वन्तु । “भुवश्च" इति ङीष् । प्रभ्वीरिति । “वा छन्दसि” इ. ति पूर्वसवर्णदीर्घः । ता महतीः प्रभूताश्च धानास्ते तव भोगाय यमः नियन्ता पितॄणां राजा अनु मन्यताम् अनुजानातु । अनुमतेर्निर- वधित्वं दर्शयति अक्षितिं भूयसीम् इति । भूयसीम् अत्यन्तं बहुम् अक्षि- तिम् अक्षयम् । बहुकालपर्यन्तम् इति यावत् । “कालाध्वनोः" इति द्वितीया । यथा लोके 2नगरे तिष्ठन् पुरुषः स्वीयं बहुधनं पु- रः स्वामिनोनुज्ञया भुङ्क्ते एवं यमराज्यं प्राप्तवतः प्रेतस्य अन्नभोगाय पितृराजस्य यमस्य अनुज्ञा प्रार्थते ॥ द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥ २० ॥ द्रप्सः । चस्कन्द । पृथिवीम् । अनु । द्याम् । इमम् । च । योनिम् । अनु। यः। च । पूर्वः। समानम् । योनिम् । अनु । समऽचरन्तम् । द्रप्सम् । जुहोमि । अनु । सप्त । होत्राः ॥ २४ ॥ सप्तमी ॥ पितृत्वं प्राप्ता जना 3धूमादिमार्गेण पितृलोकम् आसाद्य तत्र सोमयागजनितं सुकृतफलम् उपभुञ्जत इति अस्मिन् पित्र्ये प्रकरणे सोमे स्थितस्य उदकस्य कणः सोमो वा अनया स्तूयते । द्रप्सः सोमरस- स्थितोदककणः पृथिवीम् भूमि द्याम् दिवं च अनुलक्ष्य 4चस्कन्द स्कन्नो विप्रकीर्णोभवत्5 । लक्षणार्थे अनुः कर्मप्रवचनीयः । “कर्ममव- चनीययुक्ते द्वितीया” इति द्वितीया । ग्रावभिरभिषवकाले भूमौ १PP च । स्कंद ।. IT'e witli CP. मानदि tor धूमादि. Som. स्कन्द from च- 18 महंत्यो.28 नगरी. स्कन्द. 8 °कीणोभवतु.