पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २०५ पञ्चमी॥ अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ २५॥ अपूपऽअपिहितान् । कुम्भान् । यान् । ते । दे॒वाः । अधारयन् । ते । ते । सन्तु । स्वधाऽव॑न्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ २५ ॥ पूर्वानुवाके व्याख्यातेषा [३.६] । अपूपापिहितान् अपूपराच्छादितान् यान् कुम्भान् चरुपूर्णान् नवकलशान् देवाः तत्तद्धविर्भागिनो मन्त्रो- क्ता देवताः ते संचितास्थिरूप हे प्रेत त्वदीयान् अधारयन् स्वस्वभाग- त्वेन धारितवन्तः स्वीकृतवन्तः ते हुतभागैर्देवैः स्वीयत्वेन परिगृहीताः कु- म्भस्याश्चरवः ते परलोकप्राप्तवते तुभ्यं स्वधावन्तः स्वम् आत्मानं दधाति पुष्णाति धिनोतीति [वा] स्वधा अन्नम् तद्वन्तः सन्तु । मधुमन्तः मधुस- हिताः घृतश्चुतः बह्वाज्यक्षारिणो भवन्तु । भवदीयास्थिसमीपे स्थापिता- श्वरवः परलोकं प्राप्तस्य तव प्रीणनाय बह्वन्नराशयो मधुघृतकुल्यायुक्ता भवन्नु इत्यर्थः ॥ यास्तै धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्तै सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ २६ ॥ याः। ते । धानाः । अनुऽकिरामि । तिलऽमिश्राः । स्वधाऽव॑तीः । ताः । ते । सन्तु । उतऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः । राजा । अनु। मन्यताम् ॥२६॥ __अक्षितिं भूयसीम् ॥ २७ ॥ __ अक्षितिम् । भूयसीम् ॥ २७ ॥ षष्ठी ॥ हे संचितास्थिरूप प्रेत ते त्वदर्थं तिलमिश्राः कृष्णतिलयुक्ताः PHere B reauls अधारयन् and not अधारयन् , which shows that here as well arial 3, 68 above we should read अधार. २ Sec hymn 8. GS ayone. ३ BV किरामि नि- लेमिश्राः. Do °मि तिलमिश्राः changed to °मि तिलमिश्राः. Ile rity CK R.