पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०४ अथर्वसंहिताभाष्ये द्वितीया ॥ अपूपवान् मधुमांश्चरुरेह सीदतु । लोककृतः पथिकृतौ यजामहे ये देवानां हुतभागा इह स्थ ॥ २२ ॥ अपूपऽवान् । मधुऽमान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २२ ॥ मधुमान मधु माक्षिकं तद्वान् ॥ तृतीया॥ अपूपवान् रसवांश्चरुरेह सीदतु । लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २३ ॥ अपूपऽवान् । रसऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २३॥ रसवान् रसाः स्वाहम्ललवणतितोषणकषायाख्याः षटुंख्याकाः तद्वान् ॥ चतुर्थी ॥ अपूपवानपवांश्वरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवाना हुतभागा इह स्थ ॥ २४ ॥ अपूपऽवान् । अपडवान् । चरुः । आ । इह । सीदतु । . लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २४॥ अपूपवान् । भिन्नप्रकृतिका अपूपा विवक्षिताः । तद्वान् चरुः इह म- ध्यप्रदेशे आ सीदतु ॥ लोककृत इत्यादि पूर्ववत् ॥ So C K R PPVDO Cr. All omanthorities of the sumihittant padu tests have अपवान् and not. अपू- पवान् for the seconal word as explaincel thy Siyan.