पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू० ४.] ५४४ अष्टादशं काण्डम् । २०३ लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ (५१) अपूपऽवान् । मांसंऽवान् । चरुः । आ । इह । सीदतु। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ २० ॥ (२१) 1मांसवत्वम् अस्य विशेषः ॥ [इति] चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ "अपूपवानन्नवांश्वरः” इति आदितश्चतसृणाम् ऋचाम् अस्थिसमीपे मन्त्रोक्तचरुस्थापनकर्मणि उक्तो विनियोगः ॥ “अपूपापिहितान्” [२५] इत्यनया पूर्वस्थापितान् नवचरु2कुम्भान् अ- भिमन्त्रयेत । मिश्रा धाना आदध्यात् ॥ "द्रप्सश्चस्कन्द" [२६] इत्यनया अग्निष्टोमादिक्रतुषु बहिष्पवमानप्रस- र्पणकाले वैमुषहोमं कुर्यात् ॥ “शतधारम्" [२९] इति द्वाभ्याम् ऋग्भ्याम् अभिमन्त्रितेन शत- च्छिद्रपात्रपतितोदकेन अस्थीनि आप्तावयेत् ॥ तत्र प्रथमा ॥ अपूपवानन्नवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये दे॒वानां हुतभागा इह स्थ ॥ २१ ॥ अपूपऽवान् । अन्नऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे। ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२१॥ अन्नम् अदनीयम् ओदनम् स्थालीपक्वे3 चरौ पात्रान्तरपक्वम् ओदनं प्रक्षेप्तव्यम् इत्यर्थः । ओदनान्तरयुक्तश्चरुरिति यावत् ॥ १CP मासऽवान्. 18' मांसत्वम्. 28 ° भुंभान् for °कुम्भान्.:S पाके tor पक्वे.