पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०२ अथर्वसंहिताभाष्ये लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १७ ॥ अपूपऽवान् । दधिऽवान् । चरुः । आ। इह। सीदतु ।। लोकऽकृतः । पथिडकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह। स्थ ॥१७॥ अप्पसाहित्यं सर्वेषां चरूणां साधारणम् । दधिवान् दधिमान् । भू- स्त्रि मतुप् । “छन्दसीरः” इति मतुपो वावम्। दधियोगो द्वि- तीयचरोविशेषः ॥ अष्टमी ॥ अपूवान् द्रुप्सवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १४ ॥ अपूपऽवान् । 1द्रप्सऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥१६॥ द्रप्सा दधिकणाः । तद्वत्त्वम् अस्य चरोविशेषः ॥ नवमी॥ अपूपवान् घृतवाश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १९॥ अपूपऽवान् । घृतंऽवान्1 । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ १९॥ घृतवान् घृतं भूयोस्यास्तीति घृतवान् ॥ दशमी ॥ अपूपवान् मांसवांश्चरुरेह सीदतु। २ द्रप्सऽवान्. २ Cr घृतऽवान्.