पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । २०१ अग्न्यादीनां होत्रादिमहर्विग्भावेन रूपणम् अस्य कर्मणो वैकल्याभावद्यो- तनायेति मन्तव्यम् । होत्रादिकीर्तनम् अन्येषाम् ऋत्विजाम् उपलक्षणा- र्थम् । एवं होत्रादिरूपैरग्न्यादिभिरनुष्ठितोयं यज्ञः पितृमेधाख्यः संस्थितः समापितः सन् एति गच्छति । गन्तव्यं स्थानं दर्शयति । यत्र य- स्मिन् स्थाने हुतानाम् इष्टानां यज्ञानां पूर्वम् पूर्वकालीनम् अयनम् गमनं प्राप्तिर्विद्यते । यज्ञस्य उत्तमलोकप्राप्त्या तत्संस्कृतस्य पुरुषस्य स्व- र्गलोकप्राप्तिरुक्तेत्यनुसंधेयम् ॥ षष्ठी ॥ अपूपवान् क्षीरवाश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १६ ॥ अपूपऽवान् । क्षीरऽवान् । चरुः । आ । इह । सीदतु । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ १६ ॥ अपूपवान् गोधूमादिपिष्टविकारा अपूपाः तद्वान् । क्षीरवान् क्षीरं गो- पयः तद्वान् । चरुः कुम्भ्यां पक्व ओदनः इह अस्मिन् संचयनकर्मणि अस्यां समीपे पश्चिमदिग्भागे आ सीदतु आसन्नो भवतु ॥ चर्वासादन- मेव देवानां प्रीणनकारीति 1दर्शयति । लोककृतः संस्क्रियमाणस्य प्रेतस्य लोकं स्वर्गं कुर्वन्तीति लोककृतः तान् पथिकृतः गन्तव्यस्थानस्य मार्गक- र्तॄन् मार्गप्रदर्शकान् देवान् यजामहे प्रीणयामः । इह अस्मिन् संचयन- कर्मणि अपूपक्षीरयुक्तचर्वासादने देवानां यष्टव्यानाम् इन्द्रादीनां मध्ये ये2 यूयं हुतभागाः हुतं हविः । भागः भजनीयोंऽशः । कर्मणि घञ्। हविर्भागवन्तः स्थ भवथ तान यजामहे ॥ एवम् उत्तरेऽष्टौ पर्याया व्याख्येयाः । विशेषस्तु वक्ष्यते ॥ सप्तमी॥ अपूपवान् दधिवांश्चरुरेह सींदनु । १CP स्थ ।. 18' दर्शयंति. 25 वा for ये. २६