पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये त्त्वाद् गुणाभावः । किमर्थम् नाकस्य दुःखरहितस्य स्वर्गस्य पृष्ठे उपरिभागे दिवम् तृतीयकक्ष्यारूपं धुलोकम् । “त्रयो वा इमे त्रिवृतो लोकाः” इति श्रुतेः [ऐ ब्रा० २. १७ ] एकैकस्य लोकस्य त्रिवृत्त्वाद् एकस्यापि स्वर्गलोकस्य उत्तमाधममध्यभेदेन त्रैविध्यम् । मध्यमायाः स्व- र्गकक्ष्यायाः परमां तृतीयकक्ष्याम् उत्पतिष्यन् । उत्पतनाद्धेतोरित्यर्थः । तस्मै दिवम् उत्पतिष्यते सुकृते सुकृतकर्मणे तदर्थं नभसः मध्याकाशस्य ज्योतिषीमान् ज्योतिप्मान् प्रकाशकः देवयानः देवा यान्ति अनेनेति सः स्वर्गः सुखेन गन्तव्यः परमः स्वर्गमाप्तिसाधनभूतो वा पन्थाः मार्गः प्र भाति प्रकर्षेण दीप्यतां प्रकाशताम् । भातेः पञ्चमलकारः ॥ पञ्चमी॥ अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु । हुतोयं संस्थितो यज्ञ एंति यत्र पूर्वमयनं हुतानाम् ॥१५॥ अग्निः । होता । अध्वर्युः । ते । बृहस्पतिः । इन्द्रः । ब्रह्मा । दक्षिणतः । ते । अस्तु । हुतः । अयम् । समऽस्थितः । यज्ञः । एति । यत्र । पूर्वम् । अय॑नम् । हु. तानाम् ॥ १५॥ हे चितस्थ प्रेत ते तव पितृमेधाख्ये यज्ञे अग्निर्होता वषट्कर्ता एतत्सं- ज्ञक ऋत्विग् अस्तु । बृहस्पतिः बृहतां देवानां पतिः पालको देवः अ- ध्वर्युः अध्वरं यज्ञं यजमानस्य कामयमानः एतत्संज्ञक ऋत्विग् अ- स्तु । अध्वरशब्दात् “छन्दसि परेच्छायाम्” इति क्यच् । “कप्य- ध्वरपृतनस्यर्चि लोपः” इति अन्त्यलोपः । “क्याच्छन्दसि" इति उप्र- त्ययः । अध्वर्युष्ट इत्यत्र “युप्मत्तत्ततक्षुःषु०” इति सांहितिको मूर्धन्यादे- शः । इन्द्रो दक्षिणस्यां दिशि आसीनो ब्रह्मा एतत्संज्ञक ऋत्विक् ते तव पितृमेधाख्ये यज्ञे अस्तु भवतु । अस्मिन् प्रेतसंस्काररूपपितृमेधे १B हुतायं. AV हुतो ! यं. Deadliest cultuently. c k R lhave no kamxt. We with c k R. K संस्थिती. De संस्थितो changed to सेंस्थितो. We with CR. V. ३ C वहस्पतिः।