पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९९ [अ°४. सू०४.] ५४४ अष्टादशं काण्डम् । यज्ञः। एति। विऽततः। कल्पमानः । ईजानम् । अभि। लोकम् । स्वःऽगम् । तम् । अग्नयः । सर्वऽहुंतम् । जुषन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जा- तऽवेदसः। शृतम् । कृण्वन्तः । इह । मा। अव । चिक्षिपन् ॥ १३ ॥ विततः प्राच्योदीच्याङ्गैर्विस्तृतः कल्पमानः इष्टं प्रदेशं प्रापयितुं स- मर्थो यज्ञः पितृमेधाख्यः ईजानम् इष्टवन्तम् एनं स्वर्गम् सुखात्मकं लोकम् अभ्येति । अन्तर्भावितण्यर्थोयम् एतिः । अभिगम- यति अभिप्रापयति ॥ अतो जातवेदसः अग्नयः प्राजापत्यं मेध्यं तम् ईजानं प्रेतरूपं पशुं सर्वहुतम् सर्वः निरवशेषः हुतो दग्धः तं जुषन्ताम् सेवन्ताम् ॥ शृतम् इत्यादि व्याख्यातम् ॥ चतुर्थी॥ ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद् दिवमुत्पतिष्यन् । तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥ ईजानः । चितम् । आ । अरुक्षत् । अग्निम् । नाकस्य । पृष्ठात् । दिवम् । उतऽपतिष्यन्। तस्मै । प्र । भाति । नभसः । ज्योतिषीऽमान् । स्वःऽगः । पन्थाः । सुऽकृ- ते । देवयानः ॥ १४ ॥ ईजानः इष्टवान् पुरुषः चितम् विषमसंख्याकाभिः शलाकाभिरिष्टका- भिर्वा चयनेन संस्कृतम् अग्निम् प्रदेशम । इष्टकचितः प्रदेशः अग्निरि- त्युच्यते । उक्तं हि भगवता आपस्तम्बेन । “अग्निष्टोम उत्तर1वेदिरुत- रेषु ऋतुष्वग्निः" इति [आप० २५.४] । तम् आ अरुक्षात् आरूढ- वान्। g रुहेर्लुङि “शल इगुपधाद् अनिटः” इति क्सः । कि- RSee fiot-note १ on the previous nge. २"सं। रभंताम् । to: सर्वऽहुतम् । जयन्ताम् ।। Ř V DC ontº. We with CRPÅ. K ofzº. He with CRVDE उतऽपतिष्यन् । 18 वेदिचतरेषु. CV