पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९८ अथर्वसंहिताभाष्ये पितः एनम् अन्वादिष्टम् अग्न्याहितं प्रेतम् । उशब्दः अवधारणे । सु- कृताम् सुकृतकर्मणां लोके स्थाने स्वर्गाख्य एव सम्यक् समीचीनं यथा तथा धेहि स्थापय । सम्यकत्वं नाम अविकलं चिरकालावस्थायित्वम् ॥ द्वितीया ॥ शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह माव चिक्षिपन् ॥ १२ ॥ शम् । अग्नयः । समऽइद्धाः। आ। रभन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदसः। शृतम् । कृण्वन्तः । इह । मा । अव । चिक्षिपन् ॥ १२ ॥ आभ्याम् अग्नीन् संभूय प्रार्थयते । जातवेदसः जातानां वेदितारो- ग्नयः समिद्धाः सम्यक् प्रदीपिताः सन्तः प्राजापत्यम् प्रजापतिदेवत्यं1 मेध्यम मेधो यज्ञः पितृमेधाख्यः तदर्हम् इमं प्रेतरूपं पशुं समा रभ- न्ताम् 2संस्पृशन्तु परितो दहन्नु । इह अस्मिन् दहनकर्मणि शृतम् प्राजा- पत्यम् इमं यज्ञार्हं पशुं पक्वं कृण्वन्तः कुर्वन्तः मा अ3व चिक्षिपन् अवक्षि- प्तम् अव4कीर्ण् मा कुर्वन्तु । यथा निरवशेषं दह्यते तथेति । "सा- स्य देवता" इत्येतस्मिन्नर्थे “ पत्युत्तरपदाण्ण्यः” इति ण्यः । शृतम् इ. ति । श्रा पाके इत्येतस्मात् कर्मकर्तरि निष्ठायां "शृतं पाके” इति नि- पातनात् शृभावः ॥ तृतीया ॥ यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह मा चिक्षिपन् ॥ १३ ॥ १R विततः कल्पमान. C विततः कल्पान. De: विततः कल्पमान changeeti to विततः क- ल्पमान. C विततः । कल्पमानः ।, We with Bkv D.. Kजातवेदसः. Ife with B CRVD. Kara . We with BCRV De. 15 देवत्वं ! देवत्यं. 'S' ताः स्पृशंतु for संस्पृशन्तु. 8' वि for अव. २ IS न अव'.