पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९७ [अ०४. सू०४.] ५४४ अष्टादशं काण्डम् । योश्छन्दसि" इति सहस्य सधादेशः । मदेमेति । माद्यतेः आशीर्लिङि 'लिड्याशिष्यङ्" इति अङ् प्रत्ययः ॥ [इति] चतुर्थेनुवाके प्रथमं सूक्तम् ॥ शमग्ने" इति द्वितीयसूक्ते आदितः पञ्चानाम् ऋचां चितिस्थाहिता- म्युपस्थाने विनियोग उक्तः । 'ईजानश्चितमारुक्षत्" [१४] इति द्वा- भ्याम् ऋग्भ्यां चितावुत्तानम् आहितं प्रेतं कर्ता अनुमन्त्रयेत । “अपू- पवान् क्षीरवान्" [१६] इति नवभिर्ऋग्भिर्मन्त्रोक्तद्रव्ययुतान् नवसं- ख्याकांश्चरून अभिमन्त्र्य अस्न्थां1 समीपे पश्चिमदिक्प्रभृत्यष्टसु दिक्षु एकं मध्य इति क्रमेण निदध्यात् ॥ 66 . तत्र प्रथमा॥ शर्मग्ने पश्चात् तप शं पुरस्ताच्छमुतराच्छमधरात् तपैनम् एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ ११ ॥ शम् । अग्ने । पश्चात् । तप । शम्। पुरस्तात् । शम् । उत्तरात् । शम् । अ- धरात् । तप । एनम्। एकः । त्रेधा । विहितः । जातऽवेदः । सम्यक् । एनम् । धेहि । सुऽकृ- ताम् । ऊं इति । लोके ॥ ११ ॥ हे अग्ने त्वं पश्चात् ।“पश्चात्" इति निपातितोयं श- ब्दः। पश्चिमभागे गार्हपत्यः सन् शम् सुखं तप दह । पुरस्तात् पूर्वभागे शम् । तपेत्यनुषङ्गः । उत्तरात् उतरदिक्प्रदेशे । अधरान् । अ- धरशब्देनात्र उत्तरप्रतियो2गिनी3 दक्षिणा दिग् उच्यते ।उभयत्र "उत्तराधरदक्षिणाद् आतिः” इति आतिप्रत्ययः ४ । वाक्यभेदात् शं- पदस्य आवृत्तिः । एनम् आहिताग्निं तप ॥ हे जातवेदः जातानां वेदि- तरग्ने त्वं पूर्वम् एकोपि त्रेधा विहितः गार्हपत्यादिरूपेण त्रिप्रकारं 4स्था- { K Cay. We with: BR V Dc. ? CR srca. Cappears to have rund 31- palat: once. We with B De V. TH. Wc with B CRV De 18' अस्थ्ना, 28 योगिना. 33 दक्षिण इति for दक्षिणा. 48 स्थापिस्त्वं. उभयत्र