पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९६ अथर्वसंहिताभाष्ये अश्वा भूवा पृष्टिवाहो वहाथ यत्र देवैः संधमादं मदन्ति ॥ १० ॥ (२०) यूयम् । अग्ने । शमऽतमाभिः । तनूभिः । ईजानम् । अभि । लोकम् । स्वःऽगम्। अश्वः । भूवा । पृष्टिऽवाहः । वहाथ । यत्र । देवैः । सधऽमादम् । म- दन्ति ॥ १० ॥ (२०) हे अग्ने यूयम् । एकस्यैवाग्नेस्रेधाभवनाद् यूयम् इति बहुवचनम् । पृथगायतनेषु स्थापिता यूयं शंतमाभिः अत्यन्तं सुखकरीभिस्तनूभिः श- रीरैः । द्विविधाः खलु अग्नेस्तन्वः घोराश्च शिवाश्चेति । उभय्यस्तन्वस्तै- त्तिरीयके श्रूयन्ते । “ये ते अग्ने शिवे तनुवौ विराट् च स्वराट् च ते "मा विशतां ते मा जिन्वताम् । सम्राट चाभिभूश्च । विभूश्च परिभूश्च । "प्रभ्वी च प्रभूतिश्च । यास्ते अग्ने शिवास्तनुवः” इत्यादि [तै ब्रा १.१.७.३] । “यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्रुक् "चानाहुतिश्च । अश1नया च पिपासा च । सेदिश्चामतिश्च । एतास्ते “अग्ने घोरास्तनुवः" इति [तै आ°४.२२] । तत्र शिवाभिस्तनूभिः स- ह ईजानम् येन यूयम् आहिता इष्टाश्च तम् इष्टवन्तं पुरुषं स्वर्गम् सु- खेन गन्तव्यं सुखात्मकं लोकम् अभि वहाथ अभिगमयत । अग्नित्रयस्य गन्तव्यप्रापणे दृष्टान्तम् आह अश्वो भूवेति । प्रष्टिवाहः अश्वो भूत्वा । पुरस्ताद् एकः पश्चाद् द्वौ इत्येवं त्रिभिरश्चैर्युक्तो दैवो रथः प्रष्टिः । तं वहन मष्टिवाहः अश्वो भूता । समष्टिरूपेण एकवचनम् । एवं त्रिधा- भवन्तो यूयम् एनम् आहिताग्निं स्वर्गं लोकम् अभिगमयतेति । व- हतेलेंटि आडागमः । यत्र यस्मिन् स्वर्गे लोके देवैः अमृतपैः सधमादम् सह मदो यस्मिन् कर्मणि तथा मदेमं ह्रष्यास्म । उपस्तो- तृन् गोत्रिणोऽपेक्ष्य उत्तमपुरुषो2 बहुवचनं च । “सध मादस्य- १ A B C K R V अश्वा. PP अश्वाः 1. Ci• अश्वः ।. De readls अश्वो corrected from अश्वो. शिवाहाँ चहा. D अश्वा भृत्वा पृष्टिवाही changed to अश्वो भूत्वा पृष्टिवाहो. CP पृष्ठिऽवाहः ।. C KR पृष्टिवाहो वहाथ. We with A BV Dc. ३Cr मदति changed to मदंति. ISS', and the printed text also. 28 °पुरुषे. .