पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ० ४. सू० ४.] ५४४ अष्टादशं काण्डम्। १९५ पूर्वः । अग्निः । त्वा । तपतु । शम् । पुरस्तात् । शम् । पश्चात् । तपतु । गाहेऽपत्यः। दक्षिणडअग्निः । ते । तपतु । शर्म । वर्म । उत्तरतः । मध्यतः । अन्तरि- क्षात् । दिशःऽदिशः । अग्ने । परि । पाहि । घोरात् ॥ ९ ॥ हे अग्निभिर्दह्यमान प्रेत पूर्वो अग्निः पूर्वस्यां दिशि दीप्यमान आ- हवनीयः पुरस्तात् पूर्वस्यां दिशि शम् सुखं यथा तथा त्वा त्वां त. पतु तापयतु दहतु । तथा गार्हपत्यः गृहपतिना यजमानेन आहितः सर्वाग्नियोनिभू1तोग्निः पश्चात् पश्चिमभागे शम् सुखं तपतु त्वां दहतु । दक्षिणाग्निः दक्षिणस्यां दिशि निहितोग्निस्ते 2त्वदर्थ शर्म सुखं यथा तथा वर्म कवचं 3पराभेद्यं यथा तथा तपतु । कवचं यथा 4सर्ववारकम् यद्वा शर्म गृहम् गृहं यथा सर्वाच्छादकम् एवं सर्व त्वदीयशरीरम् आवृत्य दहत्वित्यर्थः ॥ अथ अग्नेः प्रत्यक्षस्तुतिः । हे अग्ने । आहवनीयाद्यनुगतत्वा- कारेण एकवचनम् । उत्तरतः। "पञ्चम्यास्तसिल्"। उत्तरस्या दिशः । “तसिलादिष्वाकृत्वसुचः” इति पुंवद्भावः । म- ध्यतः पूर्वादीनां चतसृणां मध्यप्रदेशाद् अन्तरिक्षात् आकाशाद् दिशो- दिशः सर्वस्या अवान्तरदिशः परि पाहि परितो रक्ष ॥ न केवलं दि- शो घ्नन्ति किं तु तत्रस्थो भयंकरः पुरुषो हिनस्ति । तथा च महार- ण्यं प्रस्तुत्य मन्त्रवर्णः । “न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति" इति [ऋ० १०.१४६.५] । अतो भीतिकारणम् आह घोरादिति । घो- रात् क्रूरात् हिंसकात् परि पाहि । “भीत्रार्थानां भयहेतुः” इति सर्वत्र अपादानसंज्ञा । “अपादाने पञ्चमी” इति पञ्चमी ॥ दशमी ॥ यूयमग्ने शर्तमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् । १C दक्षिण अग्निः ।. 1S' भूताग्निः. 25 तदर्थ. 5 पुरा°. 4 $' सर्वारकम् for सर्ववारकम्.