पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९४ अथर्वसंहिताभाष्ये अष्टमी ॥ अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः। महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥ ४ ॥ अङ्गिरसाम् । अय॑नम् । पूर्वः । अग्निः । आदित्यानाम् । अयनम् । गा- __ रडहऽपत्यः । दक्षिणानाम् । अयनम् । दक्षिणडअग्निः। महिमानम् । अग्नेः । विहितस्य । ब्रह्मणा । समऽअङ्गः । सर्वः । उप । याहि । शग्मः ॥ ७ ॥ परितश्चिताम्1 आहिताग्नेर्गार्हपत्यादयोऽग्नयो विह्रता यथाप्रदेशं वर्तन्ते । तेऽग्नयः अभिलषितप्रदा भवन्तु इत्ययम् अर्थः इत उत्तरैर्मन्तैः प्रतिपा- द्यते । अङ्गिरसाम् अयनं नाम सत्त्वात्मकः क्रतुविशेषः । स एव पूर्वः पूर्वस्यां दिशि वर्तमानोग्निः आहवनीयः । आदित्यानाम् अयनम् एत- त्संज्ञकः सत्त्रयागः गार्हपत्योग्निः । “गृहपतिना संयुक्ते ञ्यः" इति ञ्यप्रत्ययः । दक्षिणानाम् दक्षा एव दक्षिणाः दक्षा2णाम् अ- यनं सत्त्रविशेषः स एव दक्षिणाग्निः दक्षिणस्यां दिशि वर्तमानोग्निः ॥ ए- वं ब्रह्मणा3 मन्त्रेण मन्त्रसाध्यसत्त्रयागात्मना वा विहितस्य निर्मितस्य पृ- थगायतनेषु स्थापितस्य अग्नेमहिमानम् आहवनीयादिसंज्ञाभिर्व्यवह्रियमा- णां विभूति समङ्गः संहतावयवः सर्वः संपूर्णावयवः अतः शग्मः । सु- खनामैतत् । सुखितः सन् उप याहि । सर्वैरग्निभिर्दह्यमानः प्रेत ए- वम् उच्यते ॥ नवमी ॥ पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात् तपतु गार्हपत्यः । दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो ___ अग्ने परि पाहि घोरात् ॥ ९॥ 18 °श्चितम्. 28 दक्षिणाम्. 3' ब्रह्मणामिति tor ब्रह्मणा.