पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ० ४. सू० ४.] ५४४ अष्टादशं काण्डम् । १९३ थम् अहं व्याप्ता दिशः अभिलषितानि दुहीयेति विचिकित्साम् अकुर्वन स्रुवेण वत्सेन वत्सवद् वत्सः वासो यथा प्रथमं स्तन्यपानेन मातरं1 पीनोन्घीं करोति तद्वत् स्रुवोपि सर्वाणि जुह्वादीनि पात्राणि आज्यपूरितानि करो- तीति वत्सत्वेन रूपितः । वत्सरूपेण स्रुवेण प्रपीनाः प्रकर्षेण प्रवृद्ध[स्त- नीः । प्रस्नुतस्तनीरित्यर्थः । ताः सर्वा दिशः प्राच्याद्या दश दिशः कर्म धुक्ष्व अभिलषितानि फलानि । दुहिर्ड्ढिकर्मकः । प्रपीना इ- ति । प्यायतेर्निष्ठायां पीभावः । “ओदितश्च” इति निष्ठानत्वम् ॥ सप्तमी॥ तीप्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति । अत्रादधुर्यज॑मानाय लोकं दिशो भूतानि यदकल्पयन्त ॥ ७ ॥ तीर्थैः । तरन्ति । प्रऽवतः । महीः । इति । यज्ञऽकृतः। सुऽकृतः । येन । यन्ति । अत्र । अदधुः । यजमानाय। लोकम् । दिश। भूतानि। यत् । अकल्पयन्त॥७॥ तीर्थैः । तरन्ति दुष्कृतानि एभिरिति करणे क्थन प्रत्य- यः । तरणसाधनैर्यज्ञादिभिः प्रवतः । छु" उपसर्गाच्छन्दसि धात्वर्थे" इति वतिमत्ययः । वतेः अव्ययत्वेपि अर्थग्रहणसामर्थ्याल्लिङ्गसंख्या- योगः। प्रवतः प्रकृष्टा महीः महतीः आपदस्तरन्ति अतिक्रामन्ति इति एवं यज्ञादीनि आपदुत्तरकाणि भवन्तीति बुद्ध्या यज्ञकृतः यज्ञं वै- दिकं स्मार्तं च कुर्वाणा आत एव सुकृतः सुकृतकर्माणो येन पथा यन्ति प्राप्नुवन्ति 2पुण्यलोकम् अत्र अस्मिन् पुण्यलोकप्ताप्तिसाधने पथि तं पन्था- नम् अनुसृत्य आगच्छते यजमानाय तदर्थ लोकम् पुण्यार्जितम् अदधुः वि- दधनु यज्ञकृतः सुकृतकर्तारः दिशो भूतानि वा । दधातेश्छान्दसो लुङ्४। यत् सुपो लुक् । यं लोकं दिशः “स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्व" इति पूर्वमन्त्रे अभिलषितफलप्रदत्वेन उपवर्णिता दिशः भूतानि भवनवन्ति सर्वदिगवस्थितप्राणिजातानि [च] अ- कल्पयन्त यजमानार्थ समपादयन् । तं लोकम् अदधुरिति पूर्वेण संबन्धः ॥ १CP प्रऽवता। 1S' मातरध्येपानोनी. 28 पुण्यं लोकं.