पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ अथर्वसंहिताभाष्ये जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वां धु- क्ष्वाहणीयमानः ॥ ६ ॥ ध्रुवे । आ। रोहु । पृथिवीम् । विश्वऽभोजसम् । अन्तरिक्षम् । उपऽभृत् । आ । क्रमस्व । जुहु । द्याम् । गच्छ । यज॑मानेन । साकम् । स्रवेणं । वत्सेन । दिशः । ___ प्रऽपीनाः । सर्वाः । धुक्ष्व । अह्रणीयमानः ॥ ६ ॥ हे ध्रुवे एतन्नामधेये स्रुक् । “आमन्त्रितस्य च" इति षाष्ठि- कम् आधुदातत्त्वम् । विश्वभोजसम् विश्वस्य भोजयित्रीं सस्यादि- द्वारेण विश्वभोगाधिकरणभूतां वा पृथिवीम् आ रोह अधितिष्ठ । यज- मानेन साकम् इति तृतीयवाक्ये समाम्नातस्य सर्वत्रानुषङ्गः । यजमा- नोपि पृथिवीम् अधितिष्ठतु । “सहयुक्तेऽमधाने" इति तृती- या । ध्रुवा नाम स्रुक् बर्हिषि आसादिता यज्ञपरिसमाप्तिपर्यन्तम् आज्येन संपूर्णा अविचलिता वर्तते । पृथिव्यपि स्थिरा । 1अतस्तस्या 2सां अधिष्ठात्रीत्युच्यते ॥ हे3- 4उपभृतं अन्तरिक्षम् मध्यमलोकम् आ क्रमस्व आक्राम । ज्योतिरुगमनाभावेपि “आङ उद्गमने” इति आङ्क- र्वात् क्रमेयंत्ययेन आत्मनेपदम् । अध्वर्युणा हि हस्ताभ्यां जुहू- रुपभृच्च यागकाले धार्येते । तत्र उपभृतं सव्यहस्तेन गृहीत्वा दक्षिणेन जुह्वा जुहोति । अतोत्र जुह्वा उपभृत 5अधस्तनीति मध्यमलोकाधि- ,ष्ठातृत्वेन उच्यते ॥ हे जुहु6 द्याम् दिवं यजमानेन साकम् सह गच्छ । हे ध्रुवादिस्रुचः यूयं क्रमेण पृथिव्यादिलोकान्7 यजमानेन अधिष्ठापयतेत्यर्थः ॥ अथ प्रत्यक्षवदुक्तिः । एवं स्रुग्भिर्लोकत्रयं प्रापितो यजमानस्त्वम् अह्वणीय- मानः। “ह्रणीङ् रोषे लज्जायाम्" इति कण्ड्वादौ पठ्यते । क- १ B जुहु. R जुहु. D: जुहु changeel 10 जुहु. We with c ky D. २ B णीयमानः A हायमानाः. file with BC k RPP V Dr. ३Se foot-note on the prerious jage. 15' यत° for अत. 'S' वा for सा. inserts साकर्मक इति उदात्तत्वम् after' उ- पभृत्. ।' उपभृत for उपभृतं. 5S' अधस्तानिति. 68 जुहूः which is also the reading of Siyana's test.78 लोकन्,