पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू०४.] ५४४ अष्टादशं काण्डम् । १९१ दनम् आरभ्य यज्ञपरि1समाप्तेरचल1भावा ध्रुवा प्रतिष्ठिता एतत्संज्ञका स्रुक् प्रतिष्ठाम् चराचरात्मकस्य जगत आश्रयभूतां पृथिवीम् प्रथितां भूमि दा- धार । एवं जुह्वाद्यास्तिस्रः स्रुचो धुलोकादिधारकत्वेन प्रशस्ताः ॥ इमाम् ध्रुवया धारितां पृथिवीं प्रति अभिलक्ष्य घृतपृष्ठाः । घृ क्षरणदी- त्योः । दीप्तोपरिभागाः सर्वतो ज्योतिष्मतः स्वर्गाः सुखात्मका लोकाः । कक्ष्यात्रयवत्त्वाद् बहुवचनम् । यजमानाय इष्टवते कामका- मम् । “नित्यवीप्सयोः" इति द्विर्भावः । काम्यमानानि सर्वाणि फलानि दुह्राम ॥ पूर्वस्मिन् मन्त्रे तृतीये नाके अधि2 वि श्र- यस्वेति उत्तमं स्वर्गं लोकम् आरूढवतो यजमानस्य स्वकर्मार्जिताः पु- ण्यलोकाः सुकृतफलं प्रयच्छन्तु इत्युक्तम् । अस्मिंस्तु मन्त्रे पुण्यक्षयानन्तरं मर्त्यलोकं प्राप्तवतः अस्यैवाहिताग्नेः पूर्वजन्मार्जितसुकृतवासनाबलाद् इह लोकेपि पुनः स्वर्गलोकप्रापकाणि यज्ञादीनि समीचीनानि कर्माणि भ- वन्तु इत्याशास्यते । तथा च भगवतोक्तम् । त्रैविद्या3 मां सोमपाः [पूतपापा] यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्र्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥ इति [भ गी०९.२०,२१] ॥ प्राप्य पुण्यकृतां लोकान् उषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ इति च [भ गी० ६.४३] ॥ षष्ठी ॥ ध्रुवं आ रौह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व । १ A BR Kध्रुव. व. Cr ध्रुवे।. PPध्रुवे ।. We with V De. Do once real वव आ. २८KR 'मुपभृदा. We with De Cr. De conce. real °मुपभृदा. 18 समाप्तेः चल°t समाप्तेरचल. 28 m. धि वि श्रय.38 त्रयीविद्या.