पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९० अथर्वसंहिताभाष्ये अन्त्यलोपश्छान्दसः ४ । तस्मिन् विष्टपे अधि श्रिताः । अग्न्यादयः स्वर्गलोकम् वायुपर्जन्यावन्तरिक्षलोकम अधितिष्ठन्तीत्यर्थः । एतैरन्यादिभि- रधिष्ठिताः स्वर्गाः सुखात्मका लोकाः स्वकर्मभिरार्जिताः । कर्मभेदात् फ- लवैविध्येन उतमादिभेदेन वा स्वर्गा लोका इति बहुवचनम् । 1अमृते- न अमरणसाधनेन सुधारसेन विष्टाः व्याप्ताः पूर्णाः । विष व्या- प्तौ । अस्मात् निष्ठाप्रत्ययः । यजमानाय यज्ञं स्मार्तं वैदिकं वा अनुष्ठितवते प्रेताय इषम् इष्यमाणम् अन्नम् उर्जम् बलकरम् अन्नरसं च दुह्राम दुहतां प्रयच्छन्तु । दुहेर्लोटि झस्य अदादेशः । “आम् एतः" । "लोपस्त आत्मनेपदेषु" इति तकारलोपः । “बहुलं छन्द- सि” इति झादेशस्य तस्य रुडागमः ॥ पञ्चमी॥ जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् । प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामकामं यजमानाय दुह्राम् ॥ ५ ॥ जुहूः । दाधार । द्याम् । उपऽभृत् । अन्तरिक्षम् । ध्रुवा । दाधार । पृथि- वीम् । प्रतिऽस्थाम्। प्रति । ईमाम् । लोकाः । घृतऽपृष्ठाः । स्वःऽगाः । कामम्ऽकामम् । यज- __ मानाय । दुह्राम् ॥ ५॥ जुहूः जुहोति हूयते वा अनया हविरिति जुहूर्होमसाधनभूतः पात्र- विशेषः । ४ जुहोतेर्द्वे च इति किप् द्विर्वचनं चकाराद् धातोर्दी- र्घश्च । द्यामं धुलोकं दाधार धृतवती । धरतेर्भौवादि- कस्य लिटि तुजादित्वाद् अभ्यासस्य दीर्घः । उपभृत उप स- मीपे जुह्वाः भ्रियते धार्यत इति उपभृत एतत्संज्ञकः पात्रविशेषः अ- न्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकं धरति । ध्रुवा बर्हिषि आसा- .१ A BC K RV D. प्रतीमा iplicly 1 )elieve is for प्रतिमां, with the d elongateel. P प्रतिऽमाम्।. C प्रतिऽमाम्।. We with Siy.mt. २B V°लोका. Ife with AC K R. ३K दुहाम्. We witlr A B C BV.De. 18 insert- उतेहि before अमृतेन.