पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । १९९ तैः पथिभिः मागैः स्वर्गं याहि । प्रेत एव संबोध्यते । यत्र यस्मिन् स्वर्गे आदित्याः अदितेः पुत्रा देवाः मधु मधुवत्प्रीतिकरं मधुरम् अमृतं भक्षय- न्ति आस्वादयन्ति । गत्वा च तृतीये त्रित्वसंख्यापूरके उत्तमे नाके । कम् सुखम् । अकम् दुःखम् । न विद्यते अकं यस्मिन् । " नभ्राण्न- पात्” इति 1नाकशब्दो नलोपाभावेन निपातितः । अधिः सप्तम्यर्था- नुवादी छु । तस्मिन् सुखात्मके स्वर्गे वि श्रयस्व विश्रितः प्रतिष्ठितो 2भंव । यद्वा स्वर्गस्य लोकस्य उत्तममध्यमाधमभेदेन त्रिवृत्वात् तृतीये नाक इत्युक्तम् । तथा च ऐतरेयकम् । “त्रयो वा इमे त्रिवृतो लोकाः" इति [ऐ ब्रा०२.१७.] । मन्त्रवर्णोपि “तिस्रो भूमीर्धारयन् त्रीरुत द्यून्" [ऋ०२.२७..] इति । तथा “यदिन्द्राग्नी 3परमस्यां पृथिव्यां मध्य- मस्याम् अवमस्याम् उत स्थः” इति च [ऋ°१. १०७.१०] ॥ चतुर्थी ॥ त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः । स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यज॑मानाय दुह्वाम् ॥ ४ ॥ त्रयः । सुऽपर्णाः । उपरस्य । मायू इति । नाकस्य । पृष्ठे । अधि । विष्ट- पि । श्रिताः। स्वःऽगाः । लोकाः । अमृतेन । विऽस्थाः । इषम् । ऊर्जम् । यजमानाय । दुह्वाम् ॥ ४॥ त्रयः त्रिसंख्याकाः सुपर्णाः सुपतना अग्निसूर्यसोमाः उपरस्य । “उ- पर उपलो मेघो भवति" इति यास्कः [नि०२.२१] । तस्य मेघस्य संबन्धिनौ मायू । 4मायुशब्दो लुप्तमावर्थीयः । मायुमन्तौ शब्दकारिणौ वायुपर्जन्यौ । तौ हि मेघसंबन्धेन शब्दकारिणौ । एते अ- ज्यादयः अधिष्ठातृदेवाः क्रमेण नाकस्य स्वर्गस्य पृष्ठे उपरिभागे तृतीय- कक्ष्यायां विष्टपि । विष्टपशब्दः अन्तरिक्षवचनः । सप्तम्येकवचने १C विष्टा. We with kv R DE CP. २ Ch नाकस्य ।। 18 नाकशब्देन नाकशब्दे for नाकशब्दो. 2Sou. भव । यद्वा स्वर्ग. BS अव 1 पर . +5 मायुःfo मायु.