पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ अथर्वसंहिताभाष्ये साधनैः शस्त्रादिभिर्द्विषो1 निघ्नन्ति एवं यष्टारोपि एतैः स्रुगादिपात्रैर्यज्ञविद्वे- षकारिणः स्वोपद्रवकारिणश्च परिहरन्तीति आयुधवोपचारः । एवं देवर्तु- निर्मितपुरोडाशयज्ञायुधात्मकयज्ञम् अनुष्ठितव2त् हे आहिताग्ने प्रेत त्वं दे- वयानैः ] देवा यान्ति 3एभिरिति देवयानास्तैर्देवलोकमाप्तिसाधनस्तेभिस्तैः पथिभिः मार्गैः याहि गच्छ । गन्तव्यं स्थानं दर्शयति । ईजानाः इष्टव- न्तः कृतयज्ञाः पुरुषा यैः पथिभिः स्वर्गम् सुखात्मकं लोकम् स्थानं य- न्ति गच्छन्ति ॥ तृतीया ॥ ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति । तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥ ३॥ ऋतस्य । पन्थाम् । अनु। पश्य । साधु । अङ्गिरसः । सुऽकृतः । येन । यन्ति । तेभिः । याहि । पथिऽभिः । स्वःऽगम् । यत्र । आदित्याः । मधु । भक्षय- न्ति । तृतीये । नाके । अधि । वि । श्रयस्व ॥ ३ ॥ ऋतस्य सत्यभूतस्य यज्ञस्य पन्थाम् पन्थानम् । सुपो डादे- शः ४ । साधु सम्यक् । पयो वा विशेषणम् । सुपो लु- क्। साधुं समीचीनम् अचिरादिमार्गम् अनु पश्य अनुक्रमेण जानीहि । पश्यतिर्ज्ञानार्थः । सुकृतः सुकर्माणः अङ्गिरसः एतत्संज्ञका महर्षयः अङ्गारोत्पन्नाः । “येङ्गारा आसंस्तेऽङ्गिरसोऽभ- वन्” इति ऐतरेयकश्रुतेः [ऐवा ३.३४] । येन पथा यन्ति स्वर्ग- लोकम् । अङ्गिरसां सत्त्रयागानुष्ठानेन स्वर्गलोकप्राप्तिः ऐतरेयके श्रूयते । "अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्त्रम् आसते” इति । "तं स्वर्य- न्तोब्रुवन्नेतत् ते ब्राह्मण सहस्रम् इति” [इति ऐ ब्रा० ५.१४]। तेभिः १K नेभ्यो या. D तभिर्या changeal to तेभ्यो या. We with BRVOCr. २k अधि विश्रयस्व. We with BC RV DCr. ३C भक्षयति ।. 15 द्विषे. 2S' अनुष्ठिनत for अनुष्ठितवन्.38 येभि.