पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८७ [अ॰ ४. सू० ४.] ५४४ अष्टादशं काण्डम् । आ रोहत आहवनीयादिशक्तिरूपेण । अरणी आरूढवतो वः युष्मान् पितृयाणैर्मागैः समा रोहयामि । पुण्यलोकम् इति शेषः । यजमानस्य देशान्तरे मरणात् तत्प्रतिनिधित्वेन तदाहितानाम् अग्नीनां परलोकनय- नम् । अत एव अग्नीनामपि पितृयाणः पन्था उक्तः । गार्हपत्याद्या- कारेण परलोकनयने तदर्थं हविषोऽपेक्षितत्वात् हविःसद्भावं तन्नेतारम् अग्निं च दर्शयति । हव्यवाहः । अत्र हविषः अग्निदेवत्यत्वात् हव्यम् इ- त्युक्तम् । तद्वहतीति हव्यवाहः अग्निः । इषिता इषितानि । इष गताविति धातुः । अस्माभिः संस्कर्तृभिः 1प्रेषितानि प्रत्तानि हव्या हव्यानि अवाट् अवाक्षीत् वक्ष्यति प्रापयिष्यति युष्मान् । वहेश्छा- न्दसो लुङ् । एवं पुण्यलोकं प्रापिताः हविर्भिः प्रीणयिष्यमाणाश्च हे अग्नयः यूयं युक्ताः समाहिताः सन्तः । -युज समाधौ इति धातुः । ईजानम् इष्टवन्तं पुण्यलोके स्थापयतेति ॥ द्वितीया ॥ देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि । तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥ २ ॥ देवाः । यज्ञम् । ऋतवः । कल्पयन्ति । हविः । पुरोडाशम् । स्रुचः । य- ज्ञऽआयुधानि । तेभिः । याहि । पृथिऽभिः । देवऽयानैः । यैः । ईजानाः । स्वःऽगम् । य- न्ति । लोकम् ॥२॥ देवाः इन्द्राद्या यष्टव्या देवताः ऋतवः वसन्ताद्याश्च कालाः यज्ञं क- ल्पयन्ति कुर्वन्ति । स्वयं हविःस्वीकारार्थ यष्ट्रणां च फलसिद्धयर्थं 2यज्ञं नि- र्मिमते । तत्स्वरूपं 3दर्शयति । हविः । चर्वाज्यसोमलक्षणं हविः । पुरोडा- शम् पिष्टमयम् । स्रुचः । उपलक्षणम् एतत् । जुह्वादीनि यज्ञोपयुक्तानि । 4यज्ञायुधानि पात्राणि आयुधवद् आयुधानि । यथा योद्धारः आयोधन- 1 प्रेतानि for प्रेषितानि . 2 S' यज्ञग्निमिमवते. 5 दर्शयतीति. ।' आयु- धानि for यज्ञायुधानि.