पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ अथर्वसंहिताभाष्ये कानां स्मार्तानां च कर्मणाम् अग्निसाध्यात्वात् तत्कर्मफलस्य प्रापयितारः हे गार्हपत्यादयोग्नयः जनित्रीम स्वोत्यादिकाम् अरणिम् । “ज- निता मन्त्रे” इति निपातनात् णिलोपः । प्रत्येकविवक्षया एकवच- नम् । आ रोहत शक्त्यात्मना प्रविशत ॥ अहमपि अरणी आ रोहतो वः युष्मान् पितृयाणैः । पितरो यान्ति एभिः पथिभिः पित्र्यं लोकम् इति पितृयाणाः पन्थानः । करणे ल्युट । द्वि- विधो हि मार्गः देवयानः पितृयाण इति । देवलोकप्राप्तिसाधनभूतो दे- वयानः । पितृलोकप्रापक इतरः । तत्र तैः पितृयाणैः समा रोहयामि सम्यक् विधिपूर्वकम् अधिरोहयामि . अरण्योः । अग्नीनां तत्रानुप्रवेशे प- था भाव्यम् इति पितृसंबन्धात् पन्थास्तादृश उक्तः । आहिताग्नेर्मृतत्वाद् उत्तरत्र तेन अग्निभिः साध्यानां कर्मणाम् अभावात् समारोपणम् ॥ इतः पूर्व तु हव्यवाहः । द्विविधं हि हविः । दैवं हविर्हव्यम् पित्र्यं हविः कव्यम् । 1पूर्व पित्र्यहविःसंबन्धाभावात् हव्यम् इत्युक्तम् । हव्यं दैवं व- हत्तीति हव्यवाहः अग्निः । “कर्मण्यण्” । हविर्वोढृत्वाकारेण एकत्वाद् एकवचनम्। अग्निरपि द्विविधः । हव्यवाहनः कव्यवा- हन इति । इषिता इषितानि इष्टानि । “तीषुसह” इति इडा- गमः । ततत्फलसाधनत्वेन अभिमतानि यजमानेन दत्तानि हव्या हव्यानि हवींषि अवाट् अवाक्षीत् । उद्दिष्टान् देवान् 2प्रापिपत् । व- हेर्लुङि सिच् । “वदव्रज” इति हलन्तलक्षणा वृद्धिः । “बहुलं छ- न्दसि" इति इडभावः । "झलो झलि” इति सकारलोपः । “ह- ल्ड्या" इत्यादिना तिपो लोपे ढत्वजशवचर्त्वानि । अतः हे अग्नयः यूयं युक्ताः परस्परं समवेताः सन्तः ईजानम् येन यूयम् आहि- ता इष्टाश्च तम् इष्टवन्तं देशान्तरे मृतं यजमानं सुकृताम् सुकृतकर्मणां लोके स्थाने धत धारयत स्थापयत । ईजानम इति । यजेर्लिटः कानचि “वचिस्वपि०” इति संप्रसारणे "लिट्यभ्यासस्य” इति अ- भ्यासस्य संप्रसारणम् ५ ॥ यद्वा हे जातवेदसः जनित्रीम् अरणीम् 15 पूर्य. 23 प्रापिपन्.