पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०४.] ५४४ अष्टादशं काण्डम। १७५ चतुर्थेनुवाके नव सूक्तानि । तत्र "आ रोहत जनित्रीं जातवेदसः" इत्यादिभिः पञ्चदशभिर्ऋग्भिश्चितिस्थम् आहिताग्निं तम् उपतिष्ठेत ॥ "आ रोहत जनित्रीम" [१] इत्यनया ऋचा देशान्तरमृतस्य आ- हिताग्नेरेकाग्नेश्च अरणिद्वयम् अग्नौ प्रतापयेत् ॥ __ "जुहूर्दाधार द्याम्" [५] “ध्रुव आ रोह" [६] इत्याभ्याम् ऋ - ग्भ्यां प्रेताङ्गेषु 1प्रक्षेप्याणि यज्ञपात्राणि अनुमन्त्रयेत ॥ तत्र प्रथमा ॥ आ रोहत जनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि । अवाढव्येषितो हव्यवाहं ईजानं युक्ताः सुकृतौ धत्त लोके ॥ १ ॥ आ। रोहत । जनित्रीम् । जातऽवेदसः । पितृऽयानैः । सम् । वः । आ । . रोहयामि। अवाट् । हव्या । इषितः । हव्यऽवाहः । ईजानम् । युक्ताः । सुऽकृताम् । धत्त । लोके ॥१॥ हे जातवेदसः । वैतानिकाग्न्यपेक्षया बहुवचनम् । “पश्चा हि स तर्हि भवति" इति श्रुतेः प्रत्यहं होमानन्तरम् आहवनीयशक्तेर्गार्ह- पत्येऽनुप्रवेशाद् 2एतद्योनेर्दक्षिणाग्नेश्च तत्रैवानुप्रवेशाद् बहुवदुक्तिः । स्मा- र्ताग्निपक्षे पूजायां बहुवचनम् । जातानि भूतानि विदन्ति जातैः प्रा- णिभिर्विद्यन्ते ज्ञायन्त इति वा जातवेदसः । कर्तरि कर्मणि वा असुन् ४ । यद्वा वेद इति धननाम । जातस्य प्राणिमात्र- स्य वेदो धनं येभ्योग्निभ्यो भवति । उपलक्षणम् एतत् । सर्वेषां वैदि- So A BC KRV DCr. 50 BCK RV DECr. Sirana takes हव्यवाहः । the singular, but that is not inccessary. The plural suits the pussage neell and con- sists with the aecent of the ass. In Tuitinyu Drimame. 1.2. It it is doubt- tul whether हव्यवाही is the dual of हव्यवाट् or of हव्यवाह. See Rv. ३C इपिता।. PPाषितः।. So Cr. 18' प्रक्षेपाणि. 28 एनयोने २४