पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८४ अथर्वसंहिताभाष्ये ताः पराङ्मुखं गताः । अपुनरावृत्तये गता इत्यर्थः । ये च अपरे अ- परभाविनः पश्चाद् उत्पन्नाः पितरः तेभ्यः सर्वेभ्यः । तादर्थ्ये च- तुर्थी र । घृतस्य कुल्या क्षरणशीलस्य सर्पिषः कुल्या एतु गच्छतु । कुल्या कृत्रिमा सरित इति निघण्टुः । घृतपूर्णा कुल्या प्रवहत्वित्यर्थः । कीदृशी सा । शतधारा शतसंख्यधाराभिरुपेता । अत एव व्युन्दती विविधम् आद्रींकुर्वती ॥ त्रयोदशी ॥ एतदा रोह वयं उन्मृजानः स्वा इह बृहदु दीदयन्ते । अभि प्रेहि मध्यतो माप हास्थाः पितॄणां लोकं प्रथमो यो अत्र ॥७३॥ (१५) एतत् । आ । रोह । वयः । उत्ऽमृजानः । स्वाः । इह । बृहत् । ऊं इति । दीदयन्ते । अभि । प्र । इहि । मध्यतः । मा। अप । हास्थाः । पितॄणाम् । लोकम् । प्रथमः । यः । अत्र ॥ ७३ ॥ (१९) । हे मृतपुरुष एतत् परिदृश्यमानं संनिहितं वयः । वियन्ति गच्छन्ति अस्मिन्निति वयः अन्तरिक्षम् । एतद् आ रोह आरूढो भव । किं कु- र्वन् । उन्मृजानः उन्मार्जनं कुर्वन् । शरीराद् उत्क्रमणेन स्वात्मानं शो- धयन्नित्यर्थः ॥ स्वाः ज्ञातयः इह अस्मिन् लोके बृहत् अधिकं दीदयन्ते दीप्यन्ताम् । समृद्धा निवसन्तु । दीदयतिर्दीप्तिकर्मा । उ- शब्दः पदपूरणः ॥ आरोहणार्थ मध्यतः बन्धुजनमध्याद् अभि प्रेहि लो- कान्तरम् अभिलक्ष्य प्रकर्षण गच्छ ॥ अत्र अस्मिन् धुलोके यः पितॄणां संबन्धी प्रथमः मुख्यो लोकः तं लोकं मा अप हास्थाः मा परित्य- जेः । चिरं तत्रैव निवसेत्यर्थः । ओहाक् त्यागे ॥ [इति] तृतीयेनुवाके सप्तमं सूक्तम् ॥ अष्टादशकाण्डे तृतीयोनुवाकः ॥ १ ABC KRV उन्मजानः, D: उन्मृजानः changeel to उन्मजानः. C उत्ऽमृजानः। We with Ci amil the original readling of Dr.