पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १६३ हे वनस्पते वृक्षविशेष त्वयि य एषः अस्थ्यात्मकः पुरुषो निहितः नि- क्षिप्तः पूर्वम् तं पुनर्देहि अस्मभ्यं प्रयच्छ । किमर्थम् इति चेत् उच्यते । यथा येन प्रकारेण यमस्य राज्ञः सदने गृहे विदथा विदथानि विज्ञा- नानि । यद्वा यज्ञनामैतत् । यज्ञात्मकानि स्वार्जितानि कर्माणि वदन् ब्रुवन् प्रकाशयन् आसातै आसीत उपविशेत । तदर्थं पुनर्देहीत्यर्थः ॥ एकादशी॥ आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते। शरीरमस्य सं दहाथैनं धेहि सुकृतामु लोके ॥ ७१ ॥ आ। रभस्व । जातऽवेदः । तेजस्वत् । हरः । अस्तु । ते । शरीरम् । अस्य । सम् । दह । अर्थ । एनम । धेहि । सुऽकृताम्। ऊं इति । लोके ॥ ७१॥ हे जातवेदः जातानाम् उत्पन्नानां1 प्राणिनां वेदितरग्ने आ रभस्व मृ- तं दग्धुम् उपक्रमस्व ॥ ते तव तेजस्वत् तेजोभिर्वालाभिर्युक्तं हरः र. सहरणशीलं दहनसामर्थम् अस्तु भवतु ॥ अस्य मृतस्य शरीरं सं दह सम्यग् दह । यथा भस्मसाद् भवति तथा कुर्वित्यर्थः ॥ अथ शरीरद- हनानन्तरम् एनं पुरुषं सुकृताम् पुण्यकृतां लोके स्वर्गे धेहि स्थापय । यत्र पुण्यकृतो निवसन्ति तं लोकं प्रापयेत्यर्थः ॥ द्वादशी ॥ ये ते पूर्वे परागता अपरे पितरश्च ये। तेभ्यो घृतस्य कुल्यै तु शतधारा व्युन्दती ॥ ७२ ॥ ये। ते । पूर्व । पराऽगताः । अपरे। पितरः । च । ये । तेभ्यः । घृतस्य । कुल्या । एतु । शतऽधारा । विऽउन्दती ॥ ७२ ॥ ते प्रसिद्धा ये पूर्वे पूर्वभाविनः पूर्वम् उत्पन्ना ज्येष्ठाः पितरः पराग- कुल्येतु. Do कुल्यैतु clhangeel to कुल्यैतु. CA कुल्या ।. B कुल्यैतुं. We will A CRV. 18 प्राणानां for प्राणिनां.