पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१.२ अथर्वसंहिताभाष्ये _हे प्रेत ते तुभ्यं त्वदर्थम् अपू्पापिहितान अपूपैरपिहितान् छादितान् यान् कुम्भान् घृतमध्वादिपूर्णान् देवा अधारयन् तवोपभोगाय धारित- वन्तः1 ते कुम्भाः स्वधावन्तः अन्नवन्तः मधुमनाः मधुनोपेता घृतश्चुतः घृतस्राविणश्च ते तुभ्यं सन्तु भवन्तु ॥ नवमी॥ यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः । तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ ६९॥ याः । ते । धानाः । अनुऽकिरामि । तिलमिश्राः । स्वधाऽवतीः। ताः । ते । सन्नु । विऽभ्वीः । प्रऽभ्वीः । ताः । ते । यमः । राजा । अनु । मन्यताम् ॥ ६९॥ हे प्रेत ते तुभ्यं तिलमिश्राः तिलैमिश्रिताः स्वधावतीः स्वधाकारवतीः स्वधोदकवतीर्वा या धानाः । भृष्टयवा धाना उच्यन्ते । अनुकिरामि आनुपूर्व्येण विक्षिपामि । समर्पयामीत्यर्थः । विक्षेपे । तुदा- दित्वात् शप्रत्ययः । ता धानास्ते तुभ्यं विभ्वीः विभ्व्यः विविधा भव2न्त्यः विभुत्वगुणोपेता वा प्रभ्वीः प्रभव्यः प्रभवन्त्यः तृप्तिजननसमर्था- श्च सन्तु भवन्तु ॥ राजा राजमान ईश्वरो यमः ते तव ता धाना अ- नु मन्यताम् भोक्तुम् अनुजानातु । विभुशब्दात् प्रभुशब्दाच्च "वो- तो गुणवचनात्" इति ङीष् । जसि “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः ॥ दशमी॥ पुर्नर्देहि वनस्पते य एष निहितस्त्वयि । यथा यमस्य सादन आसातै विदथा वदन् ॥ ७० ॥ पुनः । देहि । वनस्पते । यः । एषः । निऽहितः । त्वयि । या । यमस्य । सदने । आसातै । विदथा । वदन् ॥ ७० ॥ १. मन्यताम्. We with A B C R V Dr. 18 कुभास्ते for ते कुम्भाः . भवत्यः .