पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८१

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम्। 'अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति च [तै ब्रा १.७. २.६] । अतो वरुणस्य शिक्षकत्वात् तत्समीपे दूतवद् वर्तमानम् इत्य- र्थः । यमस्य योनौ गृहे शकुनम शकुनिवद् वर्तमानं भुरण्युम् भर्ता- रम् । हे मृत वां पश्यन्तीति शेषः ॥ सप्तमी ॥ इन्द्र क्रतु न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ ६७ ॥ इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । यामनि । जीवाः । ज्योतिः । अशी- महि ॥ ६७ ॥ हे इन्द्र परमैश्वर्ययुक्त देव क्रतुम् कर्म सोमयागादिलक्षणम् यद्वा त- द्विषयं ज्ञानं नः अस्मभ्यम् आ भर आहर यथा येन प्रकारेण पिता पुत्रेभ्यः अभिमतं फलम् आहरति तद्वत् ॥ हे पुरुहूत पुरुभिर्यजमानैरा- हूत1 अस्मिन् यामनि याने संसारगमने नः अस्मान् शिक्ष अनुशा- धि । यद्वा शिक्षतिर्दानकर्मा । नः अस्मभ्यम् अभिमतफलं प्रयच्छेत्यर्थः । वयं च त्वत्प्रसादात् जीवाः चिरकालजीवनोपेता ज्योतिः प्रकाशम् इह- लोकसुखानुभवम् अशीमहि प्राप्नुयाम् ॥ अष्टमी ॥ अपूपापिहितान् कुम्भान यांस्तै देवा अधारयन् । ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ ६ ॥ अपूपऽअपिहितान् । कुम्भान् । यान् । ते । दे॒वाः । अधारयन् । ते। ते । सन्तु । स्वधाऽवन्तः । मधुऽमन्तः । घृतऽश्चुतः ॥ ६ ॥ + A Bordat $. We with C RV De. A B C k RV DC अधारयन्. We ३ Cr ञ्युतः। 18 omits ottaa safa, anil leaving a blank acc for about eight letters reads यानि यान संसार°&c. with CP.