पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० अथर्वसंहिताभाष्ये दिवः । चित् । अन्तात् । उपऽमाम् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥६५॥ अयम् अग्निः केतुना केतयित्रा ध्वजेन बृहता महता धूमेन प्र भाति प्रकर्षेण दीप्यते ॥ तथा रोदसी द्यावापृथिव्यौ आ अभिलक्ष्य वृषभः कामानां वर्षकः अयम् अग्नी रोरवीति भृशं शब्दं करोति ॥ माम् उप मत्समीपे दिवश्चिदन्तात् । चिच्छब्दः अप्यर्थे । आकाशस्य पर्यन्तादपि अयम् अग्निः उदानट् ऊर्ध्वं व्याप्नोत् ॥ तदनन्तरम् अपाम् उदकानाम् उपस्थे उपस्थाने अन्तरिक्षप्रदेशे महिषः । महन्नामैतत् । महान भूत्वा वव- र्ध ववृधे । प्रवृद्धोभूद् इत्यर्थः । xवृधु वृद्धौ । व्यत्ययेन परस्मैपदम् ॥ षष्ठी ॥ नाकै सुपर्णमुप यत् पतन हुंदा वेनन्तो अभ्यचक्षत वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥ ६६ ॥ नाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेन॑न्तः । अभिऽअर्च- क्षत । त्वा। हिरण्यंऽपक्षम्। वरुणस्य । दूतम्। यमस्य । योनौ। शकुनम्।भुरण्युम्॥६६॥ कं सुखम् अकं दुःखम् । नास्मिन् अकम् अस्तीति नाकः । "न- भ्राण्नपात्” 1इत्यादिना नञः प्रकृतिभावः । तस्मिन नाके स्व- र्गलोके पतन्तम् गच्छन्नं सुपर्णम् शोभनपतनम् उपलक्ष्य हृदा मन- सा वेनन्तः । वेनतिः कान्निकर्मा । कामयमानाः हे प्रेत त्वा त्वां यत् यदा अभ्यचक्षत अभिपश्यन्ति 2तदानीम् हिरण्यपक्षम् हि- रण्मयपक्षोपेतं वरुणस्य एतत्संज्ञस्य देवस्य दूतम् । वरुणः खलु सत्यानृत- विभागेन प्राणिनां शिक्षकः । श्रूयते हि । “यासां राजा वरुणो या- ति मध्ये सत्यानृते अवपश्यन् जनानाम् इति [ऋ०७.४९.३] । १P उपऽमाम् ।. Pउप । माम् ।. Cr उप । माम् । २ R °मुपयत्पततं. De °मुपयत्पतंतं channel to °मुपयत्पततं. पयत्पतंतं. ३ Bहूदा. Dc हवा changed to हृदा. We witli ACKRV, So PP CP. ५CP हिरण्यऽपक्षम् ।। 18 om. त्यादि. 28 इदानी. "