पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७९ [अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । न्तरा क्षान्तेन लोकेन दध्रे धारयति हे विश्वमित्राः सर्वजनमित्रभूता ब्राह्मणाः तं तादृशं यमं हविभिश्चरुपुरोडाशादिभिः अर्चत पूजयत ॥ सो- र्चितो यमो नः अस्मान् जीवसे जीवनाय प्रतरम् प्रकृष्टतरं धात् दधा- तु धारयतु । प्रशब्दात् तरप् । “अमु च च्छन्दसि" इति अ- मु प्राययः ॥ चतुर्थी ॥ आ रोहत दिवमुतमामृषयो मा बिभीतन । सोम॑पाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥ ६४ ॥ आ। रोहत । दिवम् । उतऽतमाम् । ऋषयः । मा। बिभीतन । सोमऽपाः । सोमऽपायिनः । इदम् । वः । क्रियते । हविः । अगन्म । ज्यो- तिः । उतऽतमम् ॥ ६४ ॥ हे ऋषयः मन्त्रदर्शिनो मनुष्याः उत्तमाम् उत्कृष्टां दिवम् स्वर्गम् आ रोहत यज्ञदानादिसत्कर्मभिः प्राप्नुत । मा बिभीतन भयं मा प्राप्नु- त । बिभतेर्लोटि "तप्तनप्तनथनाञ्च" इति तस्य तनादेशः ।ऋ- षयो विशेष्यन्ते । सोमं पिबन्तीति सोमपाः । स्वयं कृतसोमयागा इ- त्यर्थः । सोमपायिनः अन्यानपि यजमानान् सोमं पाययन्तीति सोमपा- यिनः । सोमयागस्य कारयितार इत्यर्थः । दिवम् 1आरूढानां वः यु- ष्माकम् इदं हविः क्रियते । तेन हविषा यूयं सुखेन द्युलोके वर्तध्वम् इत्यर्थः । वयं च युष्मत्प्रसादाद् उत्तमम् उत्कृष्टतमं ज्योतिः प्रकाशं चि- रकालजीवनम् अगन्म गच्छेम ॥ पञ्चमी ॥ प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥ ६५ ॥ प्र। केतुना । बृहता । भाति । अग्निः । आ । रोदसी इति । वृषभः । रो- रवीति । 18 दिविमारूढानां.