पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ अथर्वसंहिताभाष्ये इमान् । रक्षतु । पुरुषान् । आ । जरिम्णः । मो इति । सु । एषाम् । अ. संवः । यमम् । गुः ॥ ६२॥ विवस्वान् आदित्यो नः अस्मान् अमृतत्वे अमरणत्वे दधातु स्थापय- तु ॥ तत्प्रसादात् मृत्युः मरणकारी देवः परैतु पराङ्मुखो गच्छतु । अमृतम् अमरणं नः अस्मान् 1ऐतु प्राप्नोतु ॥ आ जरिम्णः । जराया भा- वो जरिमा । जरावस्थापर्यन्तम् इमान् अस्मदीयान् पुरुषान् पुत्रपौत्रा- दीन् रक्षतु पालयतु ॥ एषां पुरुषाणाम असवः प्राणाः सु सुष्टु मो मैव यमम् वैवस्वतं गुः गच्छन्तु । विवस्वता यमस्य पित्रा रक्षितत्वाद् इति भावः । ४ इण् गतौ । माङि लुङि “इणो गा लुङि” इति गादेशः ॥ तृतीया ॥ यो दध्रे अन्तरिक्षे न महा पितॄणां कविः प्रमतिर्मतीनाम् । तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ ६३ ॥ यः । दध्रे । अन्तरिक्षे । न । मह्ना। पितॄणाम् । कविः । प्रऽमतिः । म- तीनाम्। तम् । अर्चत । विश्वमित्राः । हविःऽभिः । सः । नः । यमः । प्रडतरम् । जीवसे । धात् ॥ ६३॥ यो यमः कविः कान्तदर्शी प्रमतिः प्रकृष्टबुद्धिः महा स्वमहिम्ना म- तीनाम् 2मन्तॄणा स्तोतॄणां पितॄणाम् । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । पितृन् अन्तरिक्षेण अ- १C असर्वः। २ AC अन्तरिक्षन (bloubtlook 101 अन्तरिक्षेन'. D: अंतरिक्षेण changeet १) अंतरिक्ष न. R अन्तरिक्षेण ( doultless for अन्तरिक्षन). We with Bk P#V. St- yana's own text is starim (i.e. spartaa), lut his interpretation is certainly wrong. So BCÄRV Dc. Sảyana takes it as a vocative. But it can be taken as a nominative. Crai. I Suyapa's restling in his text: 10 : अमृतं न एतु, not अमृतं न पेतु. 25 मंचूणां स्तोत्रूणां पितॄणां for मन्तॄणां स्तोतॄणां पितॄणां.