पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम्। १७७ तत्र प्रथमा॥

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः । इहेमे वीरा बहवो भवन्तु गोमदश्ववन्मय्य॑स्तु पुष्टम् ॥ ६१ ॥ विवस्वान्। नः। अभयम्। कृणोतु । यः । सुडत्रामा । जीरऽदानुः । सुऽदानुः । इह । इमे । वीराः । बहवः । भवन्तु । गोऽमंत् । अश्वऽवत् । मयि । अ- स्तु । पुष्टम् ॥६१ ॥ विवस्वान् एतत्संज्ञक आदित्यो नः अस्माकम् अभयम मरणजनित- भीतिराहित्यं कृणोतु करोतु । तथा जीरदानुः जीवनस्य कर्ता । जी- व प्राणधारणे । “जीवे रदानुक्” इति । यद्वा रकि ज्यः संप्रसारणम् इति [उ०२.२३.] ज्या वयोहानौ इत्यस्माद् रक् प्रत्ययः संप्रसारणं च ।जीरस्य वयोहानेर्दाता जीरदानुः । सुदानुः शो- भनदानुः । एवंगुणविशिष्टो यः सुत्रामा सुष्ठु त्राता एतासंज्ञको देवः सोपि अस्माकम् अभयं कृणोत्विति संबन्धः ॥ इह अस्मिन् लोके इमे वीराः पुत्रपौत्रादयः अस्माकं बहवः बहुला भवन्तु । तथा गोमत ब- हुभिगोभिर्युक्तम् अश्ववत बह्वश्वोपेतं पुष्टम् पोषकं धनं मयि आत्मनि अस्तु भवतु । मरणजनितभीतिपरिहारेण पुत्रपौत्रादिसमृद्धिर्धनसमृद्धिश्च अस्माकं भववित्यर्थः ॥ द्वितीया ॥ विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु । इमान् रक्षतु पुरुषाना जरिम्णो मो ष्वे षामसवो यमं गुः ॥ ६२ ॥ विवस्वान् । नः । अमृतऽत्वे । दधातु । परी । एतु । मृत्युः । अमृतम् । नः । आ। एतु। BKV fatement. De feratate changed to fartearat. We with ACKR. I See the Kasika on l'anini 1 1. 1. 60.