पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" अथर्वसंहिताभाष्ये. दाहजनितम् औष्ण्यं शमयत्वित्यर्थः । तथा प्रुष्वा1 विमुडूपेण सवन् उ. त्सः ते तव शम् सुखं यथा भवति तथा अव शीयताम् अवपततु । अ- धोमुखं स्रवत्वित्यर्थः ॥ हे शीतिके शीतस्य कारिणि । ओषधिविशेषस्ये- यं संज्ञा । हे शीतिकावति शीतिकाख्यौषधियुक्ते पृथिवि हे 2ह्लादके ह्ला- दः सुखम तत्कारिणि ओषधे हे ह्लादकावति ह्लादकाख्यौषधियुक्ते पृथिवि मण्डूक्यां मण्डूकस्य स्त्री मण्डूकी तया । यद्वा मण्डूकपर्णाख्यया ओष- ध्या अस्य दग्धस्य पुरुषस्य शं भवं । दाहशमनहेतुर्भवेत्यर्थः । तदर्थम् इमं दाहकम् अग्निं सुष्ठु शमय शान्तं कुरु ॥ [इति] तृतीयेनुवाके षष्ठं सूक्तम् ॥ "विवस्वान् नः"[६१] इत्यादिभिः सप्तभिर्ऋग्भिः श्मशानचयनकर्मणि कर्ता सर्वे गोत्रिणश्च 3श्मशानस्य पश्चाङ्भागे स्थित्वा प्रेतम् उपतिष्ठेरन ॥ पितृमधे चतुर्थेऽहनि वैवस्वते स्थालीपाके “विवस्वान् नो अभयम्' इति द्वाभ्यां प्रत्यूचं द्वे आहुती जुहुयात् । युक्ताभ्यां तृतीयाम् आहुतिं कुर्यात् ॥ तथा एताभ्यामेव हुतशेषम् अभिमन्त्य समानोदका गोत्रिणः कर्तारं प्राशयेयुः ॥ संचयने “विवस्वान् नः” इति व्द्यृचम् “इन्द्र ऋतुम्”[६७] इत्येतां च स्वस्ययनार्थं जपेत् ॥ “यास्ते धानाः" [६९] इति द्वाभ्यां तिलमिश्रा धाना अस्न्थाम् उप- रि आदध्यात् । “पुनर्देहि" [७०] इति ऋचा अस्थीनि वृक्षमूलाद् आ- ददीत यदि अस्थीनि वृक्षमूले4 पूर्वं स्थापितानि स्युः ॥ "आ रभस्व"[७१] इति तिसृभिः प्रेतशरीरे दत्तम् अग्निं काष्ठैर्दीपयेयुः ॥ "ये ते पूर्व परागताः" [७२] इति ऋचा सर्पिर्मधुभ्यां चरुम् अ- भिमन्त्र्य अस्थिसमीपे निदध्यात् ॥ तथा पिण्डपितृयज्ञे अनया निरुप्तानां पिण्डानाम् उपरि धृतधारां निनयेत् 18 पृथ्वा. Sasana's text : हादके हादुकावति, but the explains हादके and हाद- prafat "spectively. 3 S 1717°. 48' वृक्षमूलं.