पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। १७५ नवमी॥

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् । तेभ्यः स्वराडसुनीतिर्नो अद्य यथावशं तन्वः कल्पयाति ॥ ५९॥ ये। नः । पितुः । पितरः । ये । पितामहाः । ये । आऽविविशुः । उरु । अन्तरिक्षम् । तेभ्यः । स्वाराट् । असुऽनीतिः । नः । अद्य । यथाऽवशम । तन्वः । क- ल्पयाति ॥ ५९॥ नः अस्माकं पितुः जनकस्य ये पितरः जनका ये च पितामहास्ते- षामपि उत्पादयितारः । पूजार्थ बहुवचनम् । पितृपितामहप्रपितामहा इ- त्यर्थः । ये च अन्ये गोत्रजा उरु विस्तीर्णम् अन्तरिक्षम् आविविशुः आ- विष्टाः प्रविष्टाः । तेभ्यः । षष्ठ्यर्थे चतुर्थी । तेषां तन्वः शरीराणि अद्य इदानी स्वराट् स्वयमेव राजा असुनीतिः असूनां नेता एतत्संज्ञको देवः नः अस्माकं यथावशम् यथाकामं कल्पयाति कल्पयतु । तत्रतत्र फलोपभोगाय शरीराणि संपादयत्वित्यर्थः ॥ दशमी॥ शं ते नीहारो भवतु शं ते प्रुष्वावं शीयताम् । शीतिके शीतिकावति ह्लादिके हार्दिकावति । मण्डूक्य१प्सु शं भुव इमं स्वग्निं शमय ॥ ६० ॥ (१८) शम् । ते । नीहारः । भवतु । शम । ते । प्रुष्वा । अव । शीयताम् । शीतके । शीतिकाऽवति । ह्रांदिके । ह्रादिकाऽवति । मण्डूकी । अप्सु । शर्म । भुवः । इमम् । सु । अग्निम् । श- मय ॥६॥ हे प्रेतपुरुष नीहारः अवश्यायः ते तव शं भवतु सुखकरो भवतु । Ř V De guepart. RAVEFI (10 kanepa ). C has kampu and reads #- ण्डुक्य. २.CP हाईके । हादका. P हादके । हादका।. ३ Cr सम्.