पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ अथर्वसंहिताभाष्ये "इमा नारी:” इत्येषा सप्तमी पूर्वम् आम्नाता [१२.२.३१] । तत्रैव व्याख्याता ॥ अर्थस्तु । इमाः प्रेतकुलोत्पन्ना नार्यः वैधव्यरहिताः सुपतिकाः सत्यः सर्पिमिश्रेण आञ्जनेन संस्पृष्टा भवन्तु । अश्रुरहिता रोगरहिताः शोभनाभरणा अपत्यजनन्यः अपत्योत्पादनाय योनिम् आ रोहन्त्विति ॥ अष्टमी॥ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमिन् । हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥ ५ ॥ सम् । गच्छस्व । पितृऽभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विs- ओमन् । हित्वा । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । 1गच्छंताम् । त- न्वा । सुऽवर्चाः ॥ ५ ॥ हे मृतपुरुष त्व पितृभिः पितृपितामहप्रपितामहैः सं गच्छस्व पैतृमे- धिकेन सापिण्ड्यकरणावधिना संस्कारेण [हेतुना संगतो भव । पितृषु मध्ये प्राप्तस्थानो] भवेत्यर्थः । यस्तेषां राजा यमः तेनापि सं गच्छ- स्व । तथा परमे उत्कृष्टे पितृलोकादपि श्रेष्ठे व्योमन् व्योनि द्युलोके नाकपृष्ठाख्ये कर्मफलोपभोगस्थाने इष्टापूर्तेन । इष्टम् प्रत्यक्षश्रुतिचोदितं यागहोमदानादि । पूर्तम् स्मृतिपुराणागमचोदितं वापीकूपतटाकदेवागार- निर्माणादि । तेन उभयेन सं गच्छस्व । तत्फलम् उपभुङ्केत्यर्थः । तथा अवद्यम् पापं हित्वा त्यक्त्वा अस्तम् । गृहनामैतत् । उत्तमलोकस्थितं गृहं पुनरेहि प्राप्नुहि ॥ सुवर्चाः शोभनदीप्तिकस्तव आत्मा तन्वा स्वर्ग- लोकभोगयोग्येन शरीरेण सं गच्छताम संयुज्यताम् । "समो ग- म्यृच्छि” इति संपूर्वाद् गमेरकर्मकाद् आत्मनेपदम् ॥ KCR. We withi ABV Dc. The word occurs elsewhere in the Atharrı and is accenteel अवद्यम. २CP अवद्यम् । ३C गच्छस्व ।। 1 S' has a lactina here for about twelve letters. 28 हस्तम्.