पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू°३.] ५४३ अष्टादशं काण्डम्। १७३ अग्निः अगदम् गदो रोगः तद्रहितं कृणोतु करोतु । यः सोमः ब्राह्म- णान् ऋत्विग्यजमानान् आविवेश रसरूपेण अन्तः प्रविष्टवान् तादृशः सोमोपि । अगदं कृणोत्विति संबन्धः ॥ षष्ठी ॥ पयस्वतीरोषधयः पयस्वन्मामक पयः । अपां पयसो यत् पयस्तेन मा सह शुम्भतु ॥ ५६ ॥ पयस्वतीः । ओषधयः । पयस्वत् । मामकम । पर्यः । अपाम् । पर्यसः । यत । पयः । तेन । मा। सह । शुम्भतु ॥ ५६ ॥ ओषधयः व्रीहियवाद्याः प्रसिद्धाः याश्च अन्याः फलपाकान्ताः ताः स- र्वाः पयस्वतीः अस्मदर्थं पयस्वत्यः । पयःशब्देन सारभूतोंऽश उच्यते । सारवत्यो भवन्तु। जसि “वा छन्दसि” इति पूर्वसवर्णदीर्घः । मा- मकम् मत्संबन्धि मम शरीरस्थितं यत् पयः सारभूतं बलं तदपि पयस्वत सारवद् भवतु । तथा अपाम् उदकानां संबन्धिनः पयसः सारभूतांशस्य यत् पयः सारभूतः उकृष्टोंऽशः1 स तेन ओषध्यादिगतेन सर्वेण पयसा सह मा मां शुम्भनु शोभनं करोतु । जलाभिमानी वरुणः स्नानेन मां शोधयविति भावः ।शुभ शुम्भ दीप्तौ ॥

सप्तमी॥ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् । अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्ने ॥ ५७ ॥ इमाः । नारीः । अविधवाः । सुऽपत्नीः । आऽअञ्जनेन । सर्पिषा । सम्। स्पृशन्ताम्। अनश्रवः । अनमीवाः । सुऽरत्नाः । आ । रोहन्तु । जनयः । योनिम् । अग्ने॥ ५७॥ १ BV शुभत. De शुभतु changed to शुभत. We will BC KR PP. २ B योनिमग्ने. W'c with ARS V De (as given at Bek XII. 2.31). 1S' oniits osशः स तेन.